________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः न्यूनाङ्गाः करचरणादिविकलाः । न्यूनेन्द्रिया नेत्रश्रोत्रादिरहिताः। रोगिणो दुश्चर्मप्रभृतयः। तेषां सत्येनासत्येनान्यथास्तोत्रेण च निन्दार्थया स्तुत्या । यत्र नेत्रयुगलहीन एषोऽन्ध इत्युच्यते तत्सत्यम् । यत्र पुनश्चक्षुष्मानेवान्ध इत्युच्यते तदसत्यम् । यत्र विकृताकृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदन्यथास्तोत्रम् । एवंविधैर्यःक्षेपं निर्भर्त्सनं करोत्यसौ अर्धाधिकत्रयोदशपणान्दण्डनीयः । (मनुः ८।२७४)-'काणं वाप्यथवा खामन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम् ॥' इति यन्मनुवचनं तदतिदुर्वृत्तवर्णविषयम् । यदा पुनः पुत्रादयो मात्रादीन् शान्ति तदा शतं दण्डनीया इति तेनैचोक्तम् । (मनुः ८।२७५)-'मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् । आक्षारयन्शतं दाप्यः पन्थानं चाददद्गुरोः ॥' इति । एतच्च सापराधेषु मात्रादिषु गुरुषु निरपराधायां च जायायां द्रष्टव्यम् ॥ २०४॥ अश्लीलाक्षेपे दण्डमाह
अभिगन्तासि भगिनीं मातरं वा तवेति ह ।
शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् ॥ २०५॥ स्वदीयां भगिनी मातरं वा अभिगन्तास्मीति शपन्तं अन्यां वा स्वजायामभिगन्तेत्येवं शपन्तं राजा पञ्चविंशतिकं पणानां पञ्चाधिका विंशतिर्यस्मिन्दण्डे स तथोक्तस्तं दमं दापयेत् ॥ २०५ ॥
एवं समानगुणेषु वर्णिषु दण्डममिधाय विषमगुणेषु दण्डं प्रतिपादयितुमाह
अर्थोऽधमेषु द्विगुणः परस्त्रीपूत्तमेषु च । अधमेष्वाक्षेत्रापेक्षया न्यूनवृत्तादिगुणेष्व| दण्डः । पूर्ववाक्ये पञ्चविंशतेः प्रकृतस्वात्तदपेक्षयार्धः सार्धद्वादशपणात्मको द्रष्टव्यः । परभार्यासु पुनरविशेषेण द्विगुणः पञ्चविंशत्यपेक्षयैव पञ्चाशत्पणात्मको वेदितव्यः ॥ तथोत्तमेषु च स्वापे. क्षयाधिकश्रुतवृत्तेषु दण्डः पञ्चाशत्पणात्मक एव ॥ वर्णानां मूर्धावसिक्तादीनां च परस्पराक्षेपे दण्डकल्पनामाह
दण्डप्रणयनं कार्य वर्णजात्युत्तराधरैः ॥ २०६॥ वर्णा ब्राह्मणादयः । जातयो मूर्धावसिक्ताद्याः । वर्णाश्च जातयश्च वर्णजातयः । उत्तराश्च अधराश्च उत्तराधराः वर्णजातयश्च ते उत्तराधराश्च वर्णजात्युत्तराधराः तैः वर्णजात्युत्तराधरैः परस्परमार्केपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयनमूहनं वेदितव्यम् । तच्च दण्डकल्पनमुत्तराधरैरिति विशेषेणोपादानादुत्तराधरभावापेक्षयैव कर्तव्यमित्यवगम्यते । यथा मूर्धावसिक्तं ब्राह्मणाद्धीनं क्षत्रियादुत्कृष्टं चाक्रुश्य ब्राह्मणः क्षत्रियाक्षेपनिमित्तात्पञ्चाशत्पणदण्डाकिंचिदधिकं पञ्च सप्तत्यात्मकं दण्डमर्हति । क्षत्रियोऽपि तमाक्रुश्य ब्राह्मणाक्षेपनिमित्ताच्छतदण्डौं
१ नेषोऽन्ध इति ख. २ द्रष्टव्यः घ. ३ विशेषोपादानात् ख. ४ दण्डादूनं ख.
For Private And Personal Use Only