________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाक्पारुष्यप्रकरणम् १८ ] मिताक्षरासहिता ।
२५७
मासज्य स ह्येषां विनयः स्मृतः ॥' इति ॥ यानि च मनुवचनानि द्यूतनिषेधपराणि ( मनुः ९ । २२४ ) - ' द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा । तासर्वान्धातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥' इत्यादीनि तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि ॥ २०२ ॥ द्यूतमेकमुखं कार्य तस्करज्ञानकारणात् ।
किंच । यत्पूर्वोक्तं द्यूतं तदेकमुखं एकं मुखं प्राधानं यस्य द्यूतस्य तत्तथोक्तं कार्यम् । राजाध्यक्षाधिष्टितं राज्ञा कारयितव्यमित्यर्थः । तस्कर ज्ञानकारणात् । तस्करज्ञानरूपं प्रयोजनं पर्यालोच्य प्रायशश्चौर्यार्जितधना एव कितवा भवन्त्यतश्चरविज्ञानार्थमेकमुखं कार्यम् ॥
द्यूतधर्म समाह्वयेऽतिदिशन्नाह
एष एव विधिर्ज्ञेयः प्राणिद्यूते समाये || २०३ ||
ग्लहे शतिकवृद्धेरित्यादिना यो द्यूतधर्म उक्तः स एव प्राणिद्यूते मलमेषमहिषादिनिर्वयै समाह्वयसंज्ञके ज्ञातव्यः ॥ २०३ ॥
इति द्यूतसमाह्वयाख्यं प्रकरणम् ।
अथ वाक्पारुष्यप्रकरणम् १८
2
इदानीं वाक्पारुष्यं प्रस्तूयते । तलक्षणं चोक्तं नारदेन - ' देशजातिकुला - दीनामाक्रोशं न्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥' इति । देशादीनामाक्रोशं न्यङ्गसंयुतम् । उच्चैर्भाषणमाक्रोशः न्यङ्गमवयं तदुभययुक्तं यत्प्रतिकूलार्थमुद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यं कथ्यते । तत्र कलहप्रियाः खलु गौडा इति देशाक्रोशः । नितान्तं लोलुपाः खलु विप्रा इति जात्याक्रोशः । क्रूरचरिता ननु वैश्वामित्रा इति कुलाक्षेपः । आदिग्रहणात्स्व विद्याशिल्पादिनिन्दया विद्वच्छिंपादिपरुषाक्षेपो गृह्यते । तस्य च दण्डतारतम्यार्थे निष्ठुरादिभेदेन त्रैविध्यमभिधाय तलक्षणं तेनैवोक्तम्– 'निष्ठुराश्लीलतीयत्वादपि तत्रिविधं स्मृतम् । गौरवानुक्रमात्तस्य दण्डोऽपि स्यात्क्रमाद्गुरुः । साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् । पतनीयैरुपाक्रोशैस्तीक्रमाहुर्मनीषिणः ॥' इति । तत्र धियूर्खजाल्ममित्यादि साक्षेपम् । अत्र न्यङ्गमित्य सभ्यम् । अवयं भगिन्यादिगमनं तद्युक्तमश्लीलम् । सुरापोऽसीत्यादिमहापातकाद्याक्रोशैर्युक्तं वचस्तीव्रम् ॥
तत्र निष्ठुराक्रोशे सवर्णविषये दण्डमाहसत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदशान् ॥ २०४ ॥
१ खलु लोलुपाः ख. २ शिल्पादि ख. घ. ३ धिर्ख जात्मस्त्वमित्यादि ग.
For Private And Personal Use Only