________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः यस्तु स्वामी वणिक् गोमी क्षेत्रिको वा अपरिच्छिन्नवेतनमेव भृत्यं कर्म का. रयति स तस्माद्वाणिज्यपशुसस्यलक्षणाकर्मणो यल्लब्धं तस्य दशमं भागं भृत्याय महीक्षिता राज्ञा दापनीयः ॥ १९४ ॥ अनाज्ञप्तकारिणं प्रत्याह
देशं कालं च योऽतीयाल्लाभं कुर्याच्च योऽन्यथा ।
तत्र स्यात्स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥ १९५॥ यस्तु भृत्यः पण्यविक्रयाधुचितं देशं कालं च पण्यविक्रयाद्यकुर्वन्देर्पादिनोल्लङ्घयेत्तस्मिन्नेव वा देशे काले च लाभमन्यथा व्ययाचतिशयसाध्यतया हीनं करोति तस्मिन्भृतके भृतिदानंप्रति स्वामिनश्छन्द इच्छा भवेत् । यावदिच्छति तावद्दद्यान पुनः सर्वामेव भृतिमित्यर्थः। यदा पुनर्देशकालाभिज्ञतयाऽधिको लाभः कृतस्तदा पूर्वपरिच्छन्नाय भृतेरधिकमपि धनं स्वामिना भृत्याय दातव्यम् ॥ १९५॥ . अनेकभृत्यसाध्यकर्मणि भृतिदानप्रकारमाह
यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् ।
उभयोरप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतम् ॥ १९६ ॥ यदा पुनरेकमेव कर्म नियतवेतनमुभाभ्यां क्रियमाणं उभयोरप्यसाध्यं चेव्याध्याद्यभिभवादुभाभ्यामपिशब्दाबहुभिरपि यदि न परिसमापितं तदा यो भृत्यो यावत्कर्म करोति तावत्तस्मै तत्कृतकर्मानुसारेण मध्यस्थकल्पितं वेतनं देयं न पुनः समम् । नचावयवशः कर्मणि वेतनस्यापरिभाषितत्वाददानमिति मन्तव्यम् । साध्ये तूभाभ्यां कर्मणि निर्वर्तिते यथाश्रुतं यावत्परिभाषितं ताबदुभाभ्यां देयं न पुनः प्रत्येकं कृत्स्नं वेतनं नापि कर्मानुरूपं परिकल्प्य देयम् १९६ आयुधीयभारवाहको प्रत्याह
अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः ।
प्रस्थानविनकृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥ १९७ ॥ न विद्यते राजदैविकं यस्य भाण्डस्य तत्तथोक्तम् । तद्यदि प्रज्ञाहीनतया वाहकेन नाशितं तदा नाशानुसारेणासौ तद्भाण्डं दापनीयः। तदाह नारदः'भाण्डं व्यसनमागच्छेद्यदि वाहकदोषतः । दाप्यो यत्तत्र नश्येत्तु दैवराजकृताहते ॥' इति ॥ यः पुनर्विवाहाद्यर्थ मङ्गलवति वासरे प्रतिष्ठमानस्य तत्प्रस्थानौपयिकं कर्म प्रागङ्गीकृत्य तदानीं न करिष्यामीति प्रस्थानविनमाचरति त. दासौ द्विगुणां भृतिं दाप्यः । अत्यन्तोत्कर्षहेतुकर्मनिरोधात् ॥ १९७ ॥
प्रक्रान्ते सप्तमं भागं चतुर्थ पथि संत्यजन् ।
भृतिमर्धपथे सर्वा प्रदाप्यस्त्याजकोऽपि च ॥ १९८ ॥ १ भृत्यकर्म ग. घ. २ दर्पादिनमुल्लङ्घयेत् घ. ३ भृतेरपि किमपि धनमधिकं ख.
For Private And Personal Use Only