________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेतनादानप्रकरणम् १६] मिताक्षरासहिता । २५३ इदानीं त्रैविद्यानां प्रतिपादितं धर्म श्रेण्यादिष्यतिदिशन्नाह
श्रेणिनैगमपाखण्डिगणानामप्ययं विधिः ।
भेदं चैषां नृपो रक्षेत्पूर्ववृत्तिं च पालयेत् ॥ १९२ ॥ __एकपण्यशिल्पोपजीविनः श्रेणयः । नैगमाः ये वेदस्याप्तप्रणीतत्वेन प्रामाण्यमिच्छन्ति पाशुपतादयः । पाखण्डिनो ये वेदस्य प्रामाण्यमेव नेच्छन्ति । नग्नाः सौगतादयः । गणो व्रातः आयुधीयादीनामेककर्मोपजीविनां । एपां चतुर्विधानामप्ययमेव विधियों निजधर्माविरोधेनेत्यादिना प्रतिपादितः । एतेषां च श्रेण्यादीनां भेदं धर्मव्यवस्थानं नृपो रक्षेत् । पूर्वोपात्तां वृत्तिं च पालयेत् ॥ १९२ ॥
इति संविद्यतिक्रमप्रकरणम् ।
अथ वेतनादानप्रकरणम् १६ संग्रति वेतनस्यानपाकर्माख्यं व्यवहारपदं प्रस्तूयते । तत्स्वरूपं च नारदेनोक्तम्- त्यानां वेतनस्योक्तो दानादानविधिक्रमः । वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ॥' इति । अस्यार्थः-भृत्यानां वेतनस्य वक्ष्यमाणश्लोकैरुक्तो दानादानविधिक्रमो यत्र विवादपदे तद्वेतनस्यानपाकर्मेत्युच्यते । तत्र निर्णयमाह
गृहीतवेतनः कर्म त्यजन्द्विगुणमावहेत।
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ १९३ ॥ गृहीतं वेतनं येनासौ स्वाङ्गीकृतं कर्म त्यजन् अकुर्वन् द्विगुणां भृति स्वामिने दद्यात् । यदा पुनरभ्युपगतं कर्म अगृहीते एव वेतने त्यजति तदा समं यावद्वतनमभ्युपगतं तावद्दाप्यो न द्विगुणम् । यद्वाङ्गीकृतां भृतिं दत्त्वा बलात्कारयितव्यः ।-'कर्माकुर्वन्प्रतिश्रुत्य कार्यों दत्त्वा भृतिं बलात्' इति नारदवचनात् ॥ भृतिरपि तेनैवोक्ता-'भृत्याय वेतनं दद्यात्कर्मस्वामी यथाक्रमम् । आदौ मध्येऽवसाने वा कर्मणो यद्विनिश्चितम् ॥' इति । तैश्च भृत्यैरुपस्कर उपस्करणं लाङ्गलादीनां प्रग्रहयोकादिकं यथाशक्त्या रक्षणीयम् । इतरथा कृष्यादिनिष्पत्यनुपपत्तेः ॥ १९३ ॥ भृतिमपरिच्छिद्यः यः कर्म कारयति तं प्रत्याह
दाप्यस्तु दशमं भागं वाणिज्यपशुसस्थतः । अनिश्चित्य भृति यस्तु कारयेत्स महीक्षिता ॥१९४ ॥
-----
-----
१ भूतानां घ. २ भृताय घ. ३ उपकरणं घ. ४ दाप्य इत्येतदल्पायासपरम् । आयासबहुत्वे तु बृहस्पतिः-'त्रिभागं पञ्चभागं वा गृह्णीयात्सीरवाहकः । भक्ताच्छादभृतः सीराद्भागं गृह्णीत पञ्चमम् ॥ जातसस्यात्रिभागं तु प्रगृह्णीयादथाभृतः ॥ भक्ताच्छादभृता ह्यन्नवस्त्रदानेन योषितः ॥ इति
For Private And Personal Use Only