________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः यः पुनर्गणस्य प्रामादिजनसमूहस्य संबन्धि साधारणं द्रव्यमपहरति । संवित् समयस्ता समूहकृतां राजकृतां वा यो लङ्घयेदतिकामेत्तदीयं सर्व धनमपहृत्य स्वराष्ट्राद्विप्रवासयेन्निष्कासयेत् ॥ अयं च दण्डोऽनुबन्धाद्यतिशये द्रष्टव्यः ॥ अनुबन्धाल्पत्वे तु (मनुः ८।२१९।२२०)-'यो ग्रामदेशसंघानां कृत्वा सत्वेन संविदम् । विसंवदेनरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ निगृह्य दापयेदेनं समयव्यभिचारिणम् । चतुःसुवर्ण षनिष्कं शतमानं च राजतम् ॥' इति मनुप्रतिपादितदण्डानां निर्वासनचतुःसुवर्णषनिष्कशतमानानां चतुर्णामन्यतमो जातिशक्त्याद्यपेक्षया कल्पनीयः ॥ १८७ ॥
इदं च तैः कर्तव्यमित्याह__कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् ।
गणिनां मध्ये ये समूहहितवादनशीलास्तद्वचनमितरैर्गणानामन्तर्गतैरनुसरणीयम् ॥ अन्यथा दण्ड इत्याह
यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् १८८ ॥ यस्तु गणिनां मध्ये समूहहितवादिवचनप्रतिबन्धकारी स राज्ञा प्रथमसाहसं दण्डनीयः ॥ १८८ ॥ राज्ञा चैत्थं गणिषु वर्तनीयमित्याह
समूहकार्य आयातान्कृतकार्यान्विसर्जयेत् ।
सदानमानसत्कारैः पूजयित्वा महीपतिः ॥ १८९ ॥ समूहकार्यनिवृत्त्यर्थं स्वपार्श्व प्राप्तान्गणिनो निर्वर्तितात्मीयप्रयोजनान्दानमानसत्कारैः स राजा परितोष्य विसर्जयेत् ॥ १८९ ॥ समूहदत्तापहारिणं प्रत्याह
समूहकार्यप्रहितो यल्लभेत तदर्पयेत् ।
एकादशगुणं दाप्यो यद्यसौ नार्पयेखत्यम् ॥ १९० ॥ समूहकार्यार्थ महाजनैः प्रेरितो राजपाधै यद्धिरण्यवस्त्रादिकं लभते तदप्रार्थित एव महाजनेभ्यो निवेदयेत्। अन्यथा लब्धादेकादशगुणं दण्डं दापनीयः ॥१९०॥ एवंप्रकाराश्च कार्यचिन्तकाः कार्या इत्याह
धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः ।
कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥ १९१ ॥ श्रौतस्मातधर्मज्ञा बाह्याभ्यन्तरशौचयुक्ता अर्थेष्वलुब्धाः कार्यविचारकाः कर्तव्याः । तेषां वचनमितरैः कार्यमित्येतदादराथं पुनर्वचनम् ॥ १९१ ॥ १ राज्ञा कृतां ग. २ हितवदन घ. ३ चैवंगणिपु वर्तितव्यं घ. ४ यद्यस्मै ख.
For Private And Personal Use Only