________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभ्युपेत्याशुश्रूषाप्र० १४ ] मिताक्षरासहिता ।
२४९
'गृहजातस्तथा क्रीतो लब्धो दायादुपागतः । अनाकालभृंतस्तद्वदाहितः स्वामिना च यः ॥ मोक्षितो महतश्चर्णायुद्धप्राप्तः पणे जितः । तवाहमित्युपगतः प्रव्रज्यावसितः ः कृतः ॥ भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः । विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥ गृहे दास्यां जातो गृहजातः । क्रीतो मूल्येन लब्धः प्रतिग्रहादिना । दायादुपागतः पित्रादिदासः । अनाकालभृतो दुर्भिक्षे यो दासत्वाय मरणाद्वक्षितः । आहितः स्वामिना धनग्रहणेनाधितां नीतः । ऋणमोचनेन दासत्वमभ्युपगतो ऋणदासः । युद्धप्राप्तः समरे विजित्य गृहीतः । पणे जितो यद्यस्मिन्विवादे पराजितोऽहं तदा त्वद्दासो भवामीति परिभाष्य जितः । तवाहमित्युपगतः तवाहं दास इति स्वयं संप्रतिपन्नः । प्रव्रज्यावसितः प्रव्रज्यात युतः । कृतः एतावत्कालं त्वद्दास इत्यभ्युपगमितः । भक्तदासः सर्वकालं भक्तार्थमेव दासत्वमभ्युपगम्य यः प्रविष्टः । वडवाहृतः वडवा गृहदासी तयाहृतः तलोभेन तामुद्वाह्य दासत्वेन प्रविष्टः । य आत्मानं विक्रीणीतेऽसावात्मविक्रेतेत्येवं पञ्चदश प्रकाराः ॥ यत्तु मनुना ( ८ ४१५ ) - 'ध्वजा हृतो भक्तदासो गृहजः क्रीतदत्रिमौ । पैतृको दण्डदासश्च सप्तैते दासयोनयः ॥' इति सप्तविधत्वमुक्तं तत्तेषां दासत्वप्रतिपादनार्थे नतु परिसंख्यार्थम् । तत्रैषां शिव्यान्तेवासिभृतकाधिकर्मकृद्दासानां मध्ये शिष्यवृत्तिः प्रागेव प्रतिपादिता । --' आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत्' इत्यादिना । अधिकर्मकृद्भुतकानां तु भृतिं वेतनादानप्रकरणे वक्ष्यते । – 'यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम्' इत्यादिना ॥
मासान्तेवासिनोस्तु धर्म विशेषं वक्तुमाह
बलाद्दासीकृतश्चोरैर्विक्रीतश्चापि मुच्यते । स्वामिप्राणप्रदो भक्तत्यागात्तन्निष्क्रयादपि ।। १८२ ॥
बलात् बलावष्टम्भेन यो दासीकृतः । यचैौरैरपहृत्य विक्रीतः । अपिशब्दादाहितो दत्तश्च स मुच्यते । यदि स्वामी न मुञ्चति तर्हि राज्ञा मोचयितव्यः । उक्तंच नारदेन - 'चौरापहृतविक्रीता ये च दासीकृता बलात् । राज्ञा मोचयितव्यास्ते दास्यं तेषु हि नेष्यते ॥' इति ॥ चैौरव्याघ्रायवरुद्धस्य स्वामिनः प्राणान्यः प्रददाति रक्षत्यसावपि मोर्चयितव्यः । तदिदं सर्वदासानां साधारणं दास्यनिवृत्तिकारणम् । - - ' यो वैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् । दासत्वात्स विमुच्येत पुत्रभागं लभेत च ॥' इति नारदस्मरणात् ॥ भक्तदासादीनां प्रातिस्त्रिकमपि मोक्षकरणमुच्यते । अनाकालभृतभक्तदासौ भक्तस्य त्यागादासभावादारभ्य स्वामिद्रव्यं यावदुपभुक्तं तावद्दत्त्वा मुच्येते । आहितर्णदासौ तु तन्निष्क्रयाद्यद्गृहीत्वा स्वामिना आहितो यच्च दत्त्वा धनिनोत्तमर्णान्मोचितस्तस्य निष्क्रयात्सवृद्धिकस्य प्रत्यर्पणान्मुच्यते । नारदेन विशेपोऽप्युक्तः-
२ भृतश्चैव व २ मोचितो घ. ३ प्रतिपादनपरम् ख. ४ मोचनीयः घ.
For Private And Personal Use Only