________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
T
-3
२४८
याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः तत्र त्रिंशत्तमो भागः क्षयो वेदितव्यः। कौशेये कोशप्रभवे वाल्कलेषु वृक्षत्वङ्गिमितेषु वसनेषु वृद्धिहासौ न स्तः किंतु यावद्वयनाथ कुविन्दादिभ्यो दत्तं तावदेव प्रत्यादेयम् ॥ १८ ॥
द्रव्यानन्त्यात्प्रतिद्रव्यं क्षयवृद्धिप्रतिपादनाशक्तेः सामान्येन हासवृद्धिज्ञानोपायमाह
देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् ।
द्रव्याणां कुशला ब्रूयुर्यचद्दाप्यमसंशयम् ॥ १८१ ॥ शाणक्षौमादौ द्रव्ये नष्टे हासमुपगते द्रव्याणां कुशलाः द्रव्यवृद्धिक्षयाभिज्ञाः देशं कालमुपभोगं तथा नष्टद्रव्यस्य बलाबलं सारासारतां च परीक्ष्य यत्कल्पयन्ति तदसंशयं शिल्पिनो दाप्याः ॥ १८१॥
इति क्रीनुताशयप्रकरणम् ॥
अथाभ्युपेत्याशुश्रूषाप्रकरणम् १४ सांप्रतमभ्युपेत्याशुश्रूषाख्यमपरं विवादपदमभिधातुमुपक्रमते । तत्स्वरूपं च नारदेनोक्तम्-'अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते । अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥' इति । आज्ञाकरणं शुश्रूषा तामङ्गीकृत्य पश्चाद्यो न संपादयति तद्विवादपदमभ्युपेत्याशुश्रूषाख्यम् । शुश्रूषकश्च पञ्चविधः। शिष्योऽन्तेवासी भृतकोऽधिकर्मकृद्दास इति। तेषामाद्याश्चत्वारः कर्मकरा इत्युच्यन्ते ते च शुभकर्मकारिणः । दासाः पुनर्गृहजातादयः पञ्चदशप्रकाराः । गृहद्वाराशुचिस्थानरथ्यावस्करशोधनाघशुभकर्मकारिणः । तदिदं नारदेन स्पष्टीकृतम्-'शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः। चतुर्विधाः कर्मकरास्तेषां दासास्त्रिपञ्चकाः ॥ शिष्यान्तेवासिप्रभृतकाश्चतुर्थस्त्वधिकर्मकृत् । एते कर्मकरा ज्ञेया दासास्तु गृहजादयः ॥ सामान्यमस्वतन्त्रत्वमेषामाहुर्मनीषिणः । जातिकर्मकृतस्तूक्तो विशेषो वृत्तिरेव च ॥ कर्मापि द्विविधं ज्ञेयमशुभं शुभमेव च । अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥ गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् । गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥ इच्छतः स्वामिनश्वाङ्गैरुपस्थानमथान्ततः । अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् ॥' इति ॥ तत्र शिष्यो वेदविद्यार्थी । अन्तेवासी शिल्पशिक्षार्थी । मूल्येन यः कर्म करोति स भृतकः । कर्मकुर्वतामधिष्ठाताधिकर्मकृत् । अशुचिस्थानमुच्छिष्टप्रक्षेपार्थे गादिकम् । अवस्करो गृहमार्जितपस्वादिनिचयस्थानम् । उज्झनं त्यागः । भृतकश्चात्र त्रिविधः । तदुक्तम्-'उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः । अधमो भारवाही स्यादित्येवं विविधो भृतः ॥' इति ॥ दासाः पुन:
१ यावद्वानार्थ घ. २ आज्ञाकारणं ख. ३ श्चाधिकर्मकृत् घ. ४ कर्मकरस्तूतो ख. ५ स्वामिनः स्वाङ्गै घ. ६ निर्वापस्थानम् घ.
For Private And Personal Use Only