________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दत्ताप्रदानिकप्र० १२ ] मिताक्षरासहिता ।
२४५
खं दद्यादित्यनेन दारसुतादेरपि स्वत्वाविशेषेण देयत्वप्रसङ्गे प्रतिषेधमाह
दारसुताहते। नान्वये सति सर्वस्वं यच्चान्यसै प्रतिश्रुतम् ॥ १७५ ॥ दारसुताहते दारसुतव्यतिरिक्तं खं दद्यान्न दारसुतमित्यर्थः । तथा पुत्रपौत्रायन्वये विद्यमाने सर्व धनं न दद्यात् । 'पुत्रानुत्पाद्य संस्कृत्य वृत्तिं चैषां प्रकल्पयेत्' इति स्मरणात् । तथा हिरण्यादिकमन्यस्मै प्रतिश्रुतमन्यस्मै न देयम् ॥ १७५ ॥
एवं दारसुताव्यतिरिक्तं देयमुक्त्वा प्रसङ्गाददेयधनग्रहणं च प्रतिगृहीत्रा प्रकाशमेव कर्तव्यमित्याह
प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः । प्रतिग्रहणं प्रतिग्रहः सः प्रकाशः कर्तव्यो विवादनिराकरणार्थम् । स्थावरस्य च विशेषतः प्रकाशमेव ग्रहणं कार्यम् । तस्य सुवर्णादिवदात्मनि स्थितस्य दर्शयितुमशक्यत्वात् ॥ एवं प्रासङ्गिकमुक्त्वा प्रकृतमनुसरन्नाह
देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत्पुनः ॥ १७६ ॥ देयं प्रतिश्रुतं चैव यद्यस्मै धर्मार्थ प्रतिश्रुतं तत्तस्मै देयमेव यद्यसौ धा. त्प्रच्युतो न भवति । प्रच्युते न पुनर्दातव्यम् । 'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' इति गौतमस्मरणात् । दत्त्वा नापहरेत्पुनः । न्यायमार्गेण यद्दत्तं तत्सप्तविधमपि पुनर्नापहर्तव्यम्, किंतु तथैवानुमन्तव्यम् । यत्पुनरन्यायेन दत्तं तददत्तं पोडशप्रकारमपि प्रत्याहर्तव्यमेवेत्यर्थादुक्तं भवति । नारदेन च-'दत्तं सप्तविधं प्रोक्तमदत्तं पोडशात्मकम्' इति प्रतिपाद्य दत्तादत्तयोः स्वरूपं विवृतम् --'पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः । स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥ अदत्तं तु भयक्रोधशोकवेगरुगन्वितैः । तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥ बालमूढास्वतन्त्रातमत्तोन्मत्तापवर्जितम् । कर्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत् ॥ अपात्रे पात्रमित्युक्त कार्ये वा धर्मसंहिते । यद्दत्तं स्यादविज्ञानाददत्तमिति तत्स्मृतम् ॥' इति ॥ अयमर्थः-पण्यस्य क्रीतद्रव्यस्य यन्मूल्यं दत्तम्, भृतिवेतनं कृतकर्मणे दत्तम्, तुष्ट्या बन्दिचारणादिभ्यो दत्तम् , स्नेहाद्दुहितृपुत्रादिभ्यो दत्तम्, प्रत्युपकारतः उपकृतवते प्रत्युपकाररूपेण दत्तम्, स्त्रीशुल्कं परिणयनार्थं कन्याज्ञातिभ्यो यद्दत्तम्, यच्चानुग्रहार्थमदृष्टार्थ दत्तं तदेतत्सप्तविधमपि दत्तमेव न प्रत्याहरणीयम् । भयेन बन्दिग्राहादिभ्यो दत्तम् , क्रोधेन पुत्रादिभ्यो वैरनिर्यातनायान्यसै दत्तम् , पुत्रवियोगादिनिमित्तशोकावेशेन दत्तम्, उत्कोचेन कार्यप्रतिबन्धनिरासार्थमधिकृतेभ्यो दत्तम्,
१ धर्मप्रच्युतो घ. २ धर्मसंयुते ख. ३ उपकृते घ. ४ पुत्रादिवैर घ.
For Private And Personal Use Only