________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
प्रत्येकं द्वौ द्वौ पणौ अजाविके पुनः प्रत्येकं पादं पादम् । दद्यादिति सर्वत्रानुपज्यते । अजाविकमिति समासनिर्देशेऽपि पादं पादमिति वीप्साबलात्प्रत्येक संबन्धोऽवगम्यते ॥ १७४ ॥
इति अस्वामिविक्रयप्रकरणम् ।
अथ दत्ताप्रदानिकप्रकरणम् १२ अधुना विहिताविहितमार्गद्वयाश्रयतया दत्तानपकर्म दत्ताप्रदानिकमिति च लब्धाभिधानद्वयं दानाख्यं व्यवहारपदमभिधीयते । तत्स्वरूपं च नारदेनोकम्-'दत्वा द्रव्यमसम्यग्यः पुनरदातुमिच्छति । दत्ताप्रदानिकं नाम व्यवहारपदं हि तत् ॥' इति ॥ असम्यगविहितमार्गाश्रयेण द्रव्यं दत्त्वा पुनरादातुमिच्छति यस्मिन्विवादपदे तद्दत्ताप्रदानिकं दत्तस्याप्रदानं पुनर्हरणं यस्मिन्दानाख्ये तद्दत्ताप्रदानिक नाम व्यवहारपदम् । विहितमार्गाश्रयत्वेन तत्प्रति. पक्षभूतं तदेव व्यवहारपदं दत्तानंपकर्मेत्यर्थादुक्तं भवति । दत्तस्थानपकर्म अपुनरादौनाख्यं यत्र दानाख्ये विवादपदे तहत्तानपकर्म । तच्च देयादेयादिभेदेन चतुर्विधम् । यथाह नारद:--'अथ देयमदेयं च दत्तं वाऽदत्तमेव च । व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः ॥' इति । तत्र देयमित्यनिषिद्धदानक्रियायोग्यमुच्यते । अदेयमस्वतया निषिद्धतया वा दानानहम् । यत्पुनः प्रकृतिस्थेन दत्तमव्यावर्तनीयं तद्दत्तमुच्यते । अदत्तं तु यत्प्रत्याहरणीयं तस्कथ्यते । तदेतत्संक्षेपतो निरूपयितुमाह
खं कुटुम्बाविरोधेन देयं स्वमात्मीयं कुटुम्बाविरोधेन कुटुम्बानुपरोधेन । कुटुम्बभरणावशिष्टमिति यावत् । तद्दद्यात् । तदरणस्यावश्यकत्वात् । यथाह मनुः ( ८।३५)-'वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥' इति । स्वं कुटुम्बाविरोधेनेत्यनेनादेयमेकविधं दर्शयति । स्वं दद्यादित्यनेन चास्वभूतानामन्वाहितयाचितकाधिसाधारणनिक्षेपाणां पञ्चानामप्यदे यत्वं व्यतिरेकतो दर्शितम् ॥ यत्पुनर्नारदेनाष्टविधत्वमदेयानामुक्तम्-'अन्वाहितं याचितकमाधिः साधारणं च यत् । निक्षेपः पुत्रदारांश्च सर्वस्वं चान्वये सति ॥ आपत्स्वपि हि कष्टासु वर्तमानेन देहिना । अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ॥' इति ॥ एतददेयत्वमात्राभिप्रायेण न पुनः स्वत्वाभावाभिप्रायेण । पुत्रदारसर्वस्वप्रतिश्रुतेषु स्वत्वस्य सद्भावात् । अन्वाहितादीनां खरूपं प्रागेव प्रपञ्चितम् ॥
१ दत्तानपाकर्म ख. २ व्यवहारपदे ग. ३ रादानं ग. ४ पुत्रदारं च ग.
For Private And Personal Use Only