________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः स्वाम्यभियुक्तेन क्रेत्रा किं कर्तव्यमित्यत आह
नष्टापहृतमासाद्य हतारं ग्राहयेनरम् ।
देशकालातिपत्तौ च गृहीत्वा स्वयमर्पयेत् ॥ १६९ ॥ नष्टमवहृतं वान्यदीयं क्रयादिना प्राप्य हर्तारं विक्रेतीरं नरं ग्राहयेत् चौरोद्धरणकादिभिः आत्मविशुद्ध्यर्थं राजदण्डाप्राप्त्यर्थं च । अथाविदितदेशान्तरं गतः कालान्तरे वा विपन्नस्तदा मूलसमाहरणाशक्तेविक्रेतारमदर्शयित्वैव स्वयमेव तद्धनं नाष्टिकस्य समर्पयेत् । तावतैवासौ शुद्धो भवतीति श्रीकराचार्येण व्याख्यातं तदिदमनुपपन्नम्। 'विक्रेतुर्दर्शनाच्छुद्धिः' इत्यनेन पौनरुक्त्यप्रसङ्गात् । अतोन्यथा व्याख्यायते । नष्टापहृतमिति नाष्टिकं प्रत्ययमुपदेशः । नष्टमपहृतं वात्मीयद्रव्यमासाद्य केतुर्हस्तस्थं ज्ञात्वा तं हारं क्रेतारं स्थानपालादिभिहियेत् । देशकालातिपत्तौ देशकालातिकमे स्थानपालाद्यसंनिधाने तद्विज्ञोपनकालाप्राक् पलायनशङ्कायां स्वयमेव गृहीत्वा तेभ्यः समर्पयेत् ॥ १६९ ॥ ग्राहिते हर्तरि किं कर्तव्यमित्यत आह
विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ।
क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी ॥ १७० ॥ यद्यसौ गृहीतः क्रेता न मयेदमपहृतमन्यसकशात्क्रीतमिति वक्ति तदा तस्य केतुर्विक्रेतुर्दर्शनमात्रेण शुद्धिर्भवति । न पुनरसाघभियोज्यः । किंतु तस्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः ॥ यथाह बृहस्पतिः-'मूले समाहृते क्रेता नाभियोज्यः कथंचन । मूलेन सह वादस्तु नाष्टिकस्य विधीयते ॥' इति ॥ तस्मिन् विवादे यद्यस्वामिविक्रयनिश्चयो भवति तदा तस्य नष्टापहृतस्य गवादिद्रव्यस्य यो विक्रयी विक्रेता तस्य सकाशात्स्वामी नाष्टिकः। खीयं द्रव्यमवाप्नोति, नृपश्चापराधानुरूपं दण्डं, क्रेता चमूल्यमवाप्नोति। नाष्टिकः अथासौ देशान्तरगतस्तदा योजनसंख्यया आनयनाथ कालो देयः। -'प्रकाशं वा कयं कुर्यान्मूलं वापि समर्पयेत् । मूलानयनकालश्च देयस्तत्राध्वसंख्यया ॥' इति स्मरणात् ॥ अथाविज्ञातदेशतया मूलमाहर्तुं न शक्नोति तदा क्रयं शोधयित्वैव शुद्धो भवति ।-'असमाहार्यमूलस्तु क्रयमेव विशोधयेत्' इति वचनात् ॥ 'यदा पुनः साक्ष्यादिभिर्दिव्येन वा क्रयं न शोधयति मूलं च न प्रदशर्यति तदा सएव दण्डभाग्भवति ॥' इति । -'अनुपस्थापयन्मूलं क्रयं वाप्यविशोधयन् । यथाभियोगं धनिने धनं दाप्यो दमं च सः' ॥ इति मनुस्मरणात् ॥ १७ ॥ खं लभेतान्यविक्रीतमित्युक्तं तल्लिप्सुना किं कर्तव्यमित्यत आह
आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा ।
पञ्चबन्धो दमस्तस्य राज्ञे तेनाविभाविते ॥ १७१ ॥ - १ विक्रेतारं ग्राहयेत् ग. २ तद्विज्ञापकात्प्राक् घ.
For Private And Personal Use Only