________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सीमाविवादप्रकरणम् ९] मिताक्षरासहिता ।
२३५
यदा त्वमीषामुक्तसाक्ष्यवचसां त्रिपक्षाभ्यन्तरे रोगादि दृश्यते अथवा प्रतिवादिनिर्दिष्टाभ्यधिकसंख्यागुणसाक्ष्यन्तरविरुद्धवचनता तदा ते मृषाभाषितया दण्डनीयास्तदाह
अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । अनृते मिथ्यावादने निमित्तभूते सति सर्वे सामन्ताः प्रत्येकं मध्यमसाहसेन चत्वारिंशदधिकेन पणपञ्चशतेन दण्डनीयाः। सामन्तविषयता चास्य साक्षिमौलादीनां स्मृत्यन्तरे दण्डान्तरविधानादवगम्यते । यथाह मनुः (१२५७) --'यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्तस्तु दाप्याः स्युद्विशतं दमम् ॥' इति ॥ नारदोऽपि-अथ चेदनृतं ब्रूयुः सामन्ताः सीमनिर्णये । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥' इति सामन्तानां मध्यमसाहसं दण्डमभिधाय—शेषाश्चेदनृतं ब्रूयुर्नियुक्ता भूमिकर्मणि । प्रत्येकं तु जघन्यास्ते विनेयाः पूर्वसाहसम् ॥' इति तत्संसक्तादिषु प्रथमं साहसमुक्तवान् ॥ मौलादीनामपि तमेव दण्डमाह-'मौलवृद्धादयस्त्वन्ये दण्डगत्या पृथक् पृथक् । विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ॥' इति । आदिशब्देन गोपशाकुनिकव्याधवनगोचराणां ग्रहणम् । यद्यपि शाकुनिकादीनां पापरतत्वाल्लिङ्गप्रदर्शन एवोपयोगो न साक्षात्सीमानिर्णये तथापि लिङ्गदर्शन एव मृषाभापित्वसंभवाइण्डविधानमुपपद्यत एव । अनृते तु पृथक् दण्ड्या इत्येतद्दण्डवि. धानमज्ञानविषयम् ॥-'बहूनां तु गृहीतानां न सर्वे निर्णयं यदि । कुर्युर्भयाद्वा लोभावा दण्ड्यास्तूत्तमसाहसम् ॥' इति ज्ञानविषये साक्ष्यादीनां कात्यायनेन दण्डान्तरविधानात् ॥ तथा साक्षिवचनभेदेऽप्ययमेव दण्डस्तेनैवोका-'कीर्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम्' इति । एवमज्ञानादिनानृतवदने साक्ष्यादीन्दण्डयित्वा पुनः सीमाविचारः प्रवर्तयितव्यः । 'अज्ञानोको दण्ड यित्वा पुनः सीमां विचारयेत्' इत्युक्त्वा । 'त्यक्त्वा दुष्टांस्तु सामन्तानन्यान्मौलादिभिः सह । संमिश्य कारयेत्सीमामेवं धर्मविदो विदुः ॥' इति निर्णयप्रकारस्तेनैवोक्तः ॥
यदा पुनः सामन्तप्रभृतयो ज्ञातारश्चिह्नानि च न सन्ति तदा कथं निर्णय इत्यत आहर अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्तिता ॥ १५३ ॥
ज्ञातॄणां सामन्तादीनां लिङ्गादीनां च वृक्षादीनामभावे राजैव सीम्नः प्रवतिता प्रवर्तयिता । अन्तर्भावितोऽन्न ण्यर्थः । ग्रामद्वयमध्यवर्तिनी विवादास्पदीभूतां भुवं समं प्रविभज्य अस्येयं भूरस्येयमित्युभयोः समयं तन्मध्ये सीमालिङ्गानि कुर्यात् । यदा तस्यां भूमावन्यतरस्योपकारातिशयो दृश्यते तदा
. १ मिथ्यावदते ग. २ साक्ष्यमौलत्वादीनां घ.
या० २३
For Private And Personal Use Only