________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता।
२३१
दुर्भिक्षे कुटुम्बभरणार्थ, धर्मकायें अवश्यकर्तव्ये, व्याधौ च, संप्रेतिरोधके वन्दिग्रहणनिग्रहादौ द्रव्यान्तररहितः स्त्रीधनं गृहन्भर्ता न पुनातुमर्हति । प्रकारान्तरेणापहरन्दद्यात् । भर्तृव्यतिरेकेण जीवन्त्याः स्त्रिया धनं केनापि दायादेन न ग्रहीतव्यम् । (मनुः ८।२९)-'जीवन्तीनां तु तासां ये तद्धरेयुः खबान्धवाः । ताञ्छिष्याचौरदण्डेन धार्मिकः पृथिवीपतिः ॥' इति दण्डविधानात् । तथा ( मनुः ९।२००)-पत्यौ जीवति यः स्त्रीभिरलंकारो तो भवेत् । न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥' इति दोषश्रवणाच्च ॥१४७॥ आधिवेदनिकं स्त्रीधनमुक्तं तदाह
अधिविनस्त्रियै दद्यादाधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्यै दत्ते त्वध प्रकीर्तितम् ॥ १४८॥ यस्या उपरि विवाहः साधिविना साचासौ स्त्री चेत्यधिविन्नस्त्री तस्यै अधि. विन्नस्त्रियै आधिवेदनिकमधिवेदननिमित्तं धनं समं यावदधिवेदनार्थं व्ययीकृतं तावद्दद्यात् । यस्य भर्ना श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते पुनः स्त्रीधने आधिवेदनिकद्रव्यस्यार्धं दद्यात् । अर्धशब्दश्चात्र समविभागवचनो न भवति । अतश्च यावता तत्पूर्वदत्तमाधिवेदनिकसमं भवति तावद्देयमित्यर्थः ॥ १४८ ॥ एवं विभागमुक्त्वा इदानीं तत्संदेहे निर्णयहेतूनाह
विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः।
विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ॥ १४९ ॥ -विभागस्य निहवे अपलापे ज्ञातिभिः पितृबन्धुभिर्मातृबन्धुभिः मातुलादिभिः साक्षिभिः पूर्वोक्तलक्षणेलेख्येन च विभागपत्रेण विभागभावना विभागनिर्णयो ज्ञातव्यः । तथा यौतकैः पृथकृतैर्गृहक्षेत्रैश्च । पृथक्ष्यादिकार्यप्रवर्तनं पृथक्पञ्चमहायज्ञादिधर्मानुष्ठानं च नारदेन विभागलिङ्गमुक्तम्-'विभागधर्मसंदेहे दा. यादानां विनिर्णयः । ज्ञातिभिर्भागलेख्येन पृथक्कार्यप्रवर्तनात् ॥ भ्रातृणामविभ. . कानामेको धर्मः प्रवर्तते। विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् ॥' इति । तथाऽपराण्यपि विभागलिङ्गानि तेनैवोक्तानि-'साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्युर्नाविभक्ताः कथंचन ॥' इति ॥१९॥
इति रिक्थविभागप्रकरणम् ।
१ संप्रतिरोधक इति व्याधिविशेषणं कार्यानुष्ठानबाधक इति च तदर्थ इत्याह वाचस्पतिः. २ णापहृतं दद्यात् घ. ३ धृतो भादिना तस्यै दत्तः स तया धृत इत्यर्थः. ४ श्वशुरेण भर्ना वा ख. ५ यौतकैः पृथकत्तैगृहक्षेत्ररिति विशेषणविशेष्यभावः व्य. म. ६ इदं पद्यं घ. पुस्तकेऽधिकं. ७ तेनैव नारदेन.
For Private And Personal Use Only