________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः
-'जनन्यां संस्थितायां तु समं सर्वे सहोदराः । भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ॥' इति । मातृकं रिक्थं सर्वे सहोदराः समं भजेरन् सनाभयो भगिन्यश्च समं भजेर निति संबन्धः । न पुनः सहोदराः समं भजेरन् सनाभयो भगि. न्यश्च समं भजेरनिति संबन्धः । न पुनः सहोदरा भगिन्यश्च संभूय भजेरनिति इतरेतरयोगस्य द्वन्द्वैकशेषाभावादप्रतीतेः । विभागकर्तृत्वान्वयेनापि चशब्दोपपत्तेः । यथा देवदत्तः कृषि कुर्याद्यज्ञदत्तश्चेति । समग्रहणमुद्धारविभागनिवृत्त्यर्थम् । सोदरग्रहणं भिन्नोदरनिवृत्यर्थम् । अनपत्यहीनजातिस्त्रीधनं तु भिन्नोदराप्युत्तमजातीयसपत्नीदुहिता गृह्णाति । तदभावे तदपत्यम् । यथाह मनुः (९।१९८)-'स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथंचन । ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत् ॥' इति । ब्राह्मणीग्रहणमुत्तमजात्युपलक्षणम् । अतश्चानपत्यवैश्याधनं क्षत्रियाकन्या गृह्णाति । पुत्राणामभावे पौत्राः पितामहीधनहारिणः । 'रिक्थभाज ऋणं प्रतिकुर्युः' इति गौतमस्मरणात् । 'पुत्रपौत्रैर्ऋणं देयम्' इति पौत्राणामपि पितामह्मणापाकरणेऽधिकारात् । पौत्राणाम. प्यभावे पूर्वोक्ता भर्नादयो बान्धवा धनहारिणः ॥ १४५ ॥ स्त्रीधनप्रसङ्गेन वाग्दत्ताविषयं किंचिदाह
दत्त्वा कन्या हरन्दण्ड्यो व्ययं दद्याच सोदयम् । कन्यां वाचा दत्वापहरन्द्रव्यानुबन्धाद्यनुसारेण राज्ञा दण्डनीयः । एतच्चापहारकारणाभावे । सति तु करणे 'दत्तामपि हरेत्कन्यां श्रेयांश्चेद्वर आव्रजेत्' इत्यपहाराभ्यनुज्ञानान्न दण्ड्यः । यच्च वाग्दाननिमित्तं वरेण स्वसंबन्धिनां कन्यासंबन्धिनां वोपचारार्थं धनं व्ययीकृतं तत्सर्वं सोदयं सवृद्धिकं कन्यादाता वराय दद्यात् ॥ अथ कथंचिद्वाग्दत्ता संस्कारात्प्राङ् म्रियते तदा किं कर्तव्यमित्यत आह
मृतायां दत्तमादद्यात्परिशोध्योभयव्ययम् ॥ १४६॥ यदि वाग्दत्ता मृता यत्पूर्वमङ्गुलीयकादि शुल्कं वरेण दत्तं तद्वर आददीत । परिशोध्योभयव्ययम् । उभयोरात्मनः कन्यादातुश्च यो व्ययस्तं परिशोध्य विगणय्यावशिष्टमाददीत । यत्तु कन्याय मातामहादिभिर्दत्तं शिरोभूषणादिकं वा क्रमायातं तत्सहोदरा भ्रातरो गृह्णीयुः।-'रिक्थं मृतायाः कन्याया गृह्णीयुः सोदरास्तदभावे मातुस्तदभावे पितुः' इति बौधायनस्मरणात् ॥ १४६ ॥ मृतप्रजास्त्रीधनं भर्तृगामीत्युक्तम् । इदानीं जीवन्त्याः सप्रजाया अपि स्त्रियाः धनग्रहणे क्वचिद्भर्तुरभ्यनुज्ञामाह
दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । गृहीतं स्त्रीधनं भैंर्ता न स्त्रियै दातुमर्हति ॥ १४७ ॥
१ कर्तृत्वेनान्वयेनापि घ. २ पितामह्या पाकरणाधिकारात् ख. ३ म्रियेत तदा ग. घ. ४ शुल्कं बा वरेण ख. ५ क्रमागतं ख. ६ भा घ.
For Private And Personal Use Only