________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता। . २२९ एवं स्त्रीधनमुक्तं तद्विभागमाह
अतीतायामप्रजसि बान्धवास्तदवानुयुः ॥ १४४ ॥ तत्पूर्वोक्तं स्त्रीधनमप्रजसि अनपत्यायां दुहितृदौहित्रीदौहित्रपुत्रपौत्ररहितायां स्त्रियामतीतायां बान्धवा भादयो वक्ष्यमाणा गृह्णन्ति ॥ १४४ ॥
सामान्येन बान्धवा धनग्रहणाधिकारिणो दर्शिताः । इदानी विवाहभेदेनाधिकारिभेदमाह
अप्रजस्त्रीधनं भर्तुर्ब्राह्मादिषु चतुर्वपि ।
दुहितॄणां प्रसूता चेच्छेपेषु पितृगामि तत् ॥ १४५ ॥ अप्रजस्त्रियाः पूर्वोक्तायाः ब्राह्मदैवार्षप्राजापत्येषु चतुर्पु विवाहेषु भार्यात्वं प्राशाया अतीतायाः पूर्वोक्तं धनं प्रथमं भर्तुर्भवति । तदभावे तत्प्रत्यासन्नानां सपिण्डानां भवति । शेषेष्वासुरगान्धर्वराक्षसपैशाचेषु विवाहेषु तदप्रजस्त्रीधनं पितृगामि । माता च पिता च पितरौ तौ गच्छतीति पितृगामि । एकशेषनिर्दिष्टाया अपि मातुः प्रथमं धनग्रहणं पूर्वमेवोक्तम् । तदभावे तत्प्रत्यासन्नानां धनग्रहणम् । सर्वेष्वेव विवाहेषु प्रसूतापत्यवती चेद्दुहितॄणां तद्धनं भवति । अन्न दुहितृशब्देन दुहितृदुहितर उच्यन्ते । साक्षाद्दुहितॄणां 'मातुर्दुहितरः शेषम्' इत्यत्रोक्तत्वात् । अतश्च मातृधनं मातरि वृत्तायां प्रथमं दुहितरो गृह्णन्ति । तत्र चोढानूढासमवायेऽनूदैव गृह्णाति । तदभावे च परिणीता । तत्रापि प्रतिष्ठिताऽप्रतिष्ठितासमवायेऽप्रतिष्ठिता गृह्णाति । तदभावे प्रतिष्ठिता । यथाह गौतमः- 'स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां च' इति । तत्र चशब्दात्प्र. तिष्ठितानां च । अप्रतिष्ठिता अनपत्या निर्धना वा । एतच्च शुल्कव्यतिरेकेण । शुल्कं तु सोदर्याणामेव । --'भगिनीशुल्कं सोदर्याणामूर्ध्व मातुः' इति गौतमवचनात् ॥ सर्वासां दुहितॄणामभावे दुहितृदुहितरो गृह्णन्ति । 'दुहितॄणां प्रसूता चेत्' इत्यस्माद्वचनात् । तासां भिन्नमातृकाणां विषमाणां समवाये मातृद्वारेण भागकल्पना । 'प्रतिमातृतो वा स्ववर्गेण भागविशेषः' इति गौतमस्मरणात् ॥ दुहितृदौहित्रीणां समवाये दौहित्रीणां किंचिदेव दातव्यं । यथाह मनुः(१।१९३) -'यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः । मातामह्या धनास्किंचित्प्रदेयं .. प्रीतिपूर्वकम् ॥' इति ॥ दौहित्रीणामप्यभावे दौहित्रा धनहारिणः । यथाह नारदः-'मातुर्दुहितरोऽभावे दुहितॄणां तदन्वयः' इसि । तच्छब्देन संनिहितदुहितृपरामर्शात् ॥ दौहित्राणामभावे पुत्रा गृह्णन्ति । ताभ्य ऋतेऽन्वय इत्युक्तत्वात् । मनुरपि दुहितॄणां पुत्राणां च मातृधनसंबन्धं दर्शयति (९।१९२)
१ चतुर्वपीत्यपिशब्दाद्गान्धर्वग्रहणम् । यद्वा अतद्गुणसंविज्ञानबहुव्रीहिणा ब्राह्मभिन्ना दैवार्पप्राजापत्यगान्धर्वाश्चत्वारः । तेन 'श्रामदैवार्षगान्धर्वप्राजापत्येषु यद्धनम् । अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥' इति न मनुवचनविसंवादः. २ अप्रजसः स्त्रियाः घ. ३ भर्तीभावे नत्प्रत्यासन्नानां सपिण्डानां पित्रभावे च तत्प्रत्यासन्नानां सपिण्डानामिति तत्रापि तेनास्याः प्रत्यासन्नास्तत्प्रत्यासन्नाः । तद्द्वारा तत्कुले प्रत्यासन्ना इति यावत्. ४ स्ववर्गे भाग ग. स्वस्ववर्गेण घ.
For Private And Personal Use Only