________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८] मिताक्षरासहिता। २२७
अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युनिरंशकाः ॥१४॥ क्लीबस्तृतीया प्रकृतिः । पतितो ब्रह्महादिः । तज्जः पतितोत्पनः । पङ्गुः पादविकलः । उन्मत्तकः वातिकपैत्तिकश्लैष्मिकसांनिपातिकग्रहावेशलक्षणैरुन्मादैरभिभूतः । जडो विकलान्तःकरणः । हिताहितावधारणाऽक्षम इति यावत् । अन्धो नेत्रेन्द्रियविकलः । अचिकित्स्यरोगोऽप्रतिसमाधेयर्यक्ष्मादिरोगग्रस्तः । आद्यशब्देनाश्रमान्तरगतपितृद्वेष्युपपातकिबधिरमूकनिरिन्द्रियाणां ग्रहणम् । यथाह वसिष्टः-- 'अनंशास्त्वाश्रमान्तरगताः' इति । नारदेनापि-'पितृद्विद पतितः षण्ढो यश्च स्यादीपपातिकः । औरसा अपि नैतेऽशं लभेरन्क्षेत्रजः कुतः ॥' इति । मनुरपि (९।२०१)-'अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा । उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः ॥' इति । निरिन्द्रियो निर्गतमिन्द्रियं यसाब्याध्यादिना स निरिन्द्रियः । एते क्लीबादयोऽनंशाः रिक्थभाजो न भवन्ति । केवलमशनाच्छादनदानेन पोषणीया भवेयुः । अभरणे तु पतितत्वदोषः । ( ९।२०२)-'सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा । ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥' इति मनुस्मरणात् । अत्यन्तं यावजीवमित्यर्थः । एतेषां विभागात्प्रागेव दोषप्राप्तावनंशत्वमुपपन्नं न पुनर्विभक्तस्य । विभागोत्तरकालमप्यौषधादिना दोषनिहरणे भागप्राप्तिरस्त्येव । -'विभक्तेषु सुतो जातः सवर्णायां विभागभाक्' इत्यस्य समानन्यायत्वात् । पतितादिषु तु पुंलिङ्गत्वमविवक्षितम् । अतश्च पत्नीदुहितृमात्रादीनामप्युक्तदोषदुष्टानामनंशित्वं वेदितव्यम् ॥ १४० ॥ क्लीबादीनामनंशित्वात्तत्पुत्राणामप्यनंशित्वे प्राप्ते इदमाह
औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः। एतेषां क्लीबादीनामौरसाः क्षेत्रजा वा पुत्रा निर्दोषा अंशग्रहणविरोधिकैब्यादिदोषरहिता भागहारिणोंऽशग्राहिणो भवन्ति । तत्र क्लीबस्य क्षेत्रजः पुत्रः संभवत्यन्येषामौरसा अपि । औरसक्षेत्रजयोर्ग्रहणमितरपुत्रव्युदासार्थम् ॥ कीबादिदुहितॄणां विशेषमाह
सुताश्चैषां प्रभतव्या यावद्वै भर्तृसात्कृताः ॥ १४१॥ एषां क्कीबादीनां सुता दुहितरो यावद्विवाहसंस्कृता भवन्ति तावदरणीयाः चशब्दात्संस्कार्याश्च ॥ १४१ ॥
१ संन्पिातग्रहा ख. २ क्षयादिरोग. घ. ३ स्यादपयात्रितः इति पाठः । अपयात्रितो राजद्रोहाधुपरोधेन बन्धुभिर्घटस्फोटादिना बहिष्कृत इति मदनः । व्यवसायार्थ नावादिना समुद्रमध्ये द्वीपान्तरं गत इति युक्तम् । 'द्विजस्याब्धौ तु नौयातुः शोधितस्याप्यसंग्रहः' इति तस्य कलौ संसर्गनिषेधात् । राजद्रोहादौ घटस्फोटबहिष्कारयोरविधानाच्च । व्य. म. ४ दोषाणामनंशित्वं घ.
For Private And Personal Use Only