________________
Shri Mahavir Jain Aradhana Kendra
#
www. kobatirth.org
दायविभागप्रकरणम् ८] मिताक्षरासहिता ।
Acharya Shri Kailassagarsuri Gyanmandir
क्रमेणाचार्य सच्छिष्यधर्म भ्रात्रेकतीर्थिनः ॥ १३७ ॥
वानप्रस्थस्य यतेर्ब्रह्मचारिणश्च क्रमेण प्रतिलोमक्रमेणाचार्य: सच्छिष्यो धर्मतीर्थी च रिक्थस्य धनस्य भागिनः । ब्रह्मचारी नैष्ठिकः उपकुर्वाणस्य तु धनं मात्रादय एव गृह्णन्ति । नैष्ठिकस्य तु धनं तदपवादत्वेनाचार्यों गृह्णातीत्युच्यते । यतेस्तु धनं सच्छिष्यो गृह्णाति । सच्छिष्यः पुनरध्यात्मशास्त्रश्रवणधारणतदर्थानुष्ठानक्षमः । दुर्वृत्तस्याचार्यादेरपि भागानर्हत्वात् । वानप्रस्थस्य धनं धर्म
कतीर्थी गृह्णाति । धर्मभ्राता प्रतिपन्नो भ्राता, एकतीर्थी एकाश्रमी, धर्मभ्राता चासावेकतीर्थी च धर्मभ्रात्रेकतीर्थी । एतेषामाचार्यादीनामभावे पुत्रादिषु सत्स्वप्येकती गृह्णाति । ननु 'अनंशास्त्वाश्रमान्तरगताः' इति वसिष्ठस्मरणादाश्रमान्तरगतानां रिक्थसंबन्ध एव नास्ति कुतस्तद्विभागः । नच नैष्ठिकस्य स्वार्जितधनसंबन्धो युक्तः । प्रतिग्रहादिनिषेधात् । 'अनिचयो भिक्षुः " इतिगौतमस्मरणात् भिक्षोरपि न स्वार्जितधनसंबन्धसंभवः । उच्यते । वानप्रस्थस्य तावत् - 'अहो मासस्य पण्णां वा तथा संवत्सरस्य वा । अर्थस्य निचयं कुर्यात्कृतमाश्वयुजि त्यजेत् ॥' इति वचनाद्धनसंबन्धोऽस्त्येव । यतेरपि - 'कौपीनाच्छादनार्थ वा वासोऽपि बिभृयाच्च सः । योगसंभारभेदांश्च गृह्णीयात्पादुके तथा ॥' इत्यादिवचनाद्वस्त्रपुस्तकसंबन्धोऽस्त्येव । नैष्टिकस्यापि शरीरयात्रार्थं वस्त्रादिसंबन्धोऽस्त्येवेति तद्विभागकथनं युक्तमेव ॥ १३७ ॥
I
इदानीं स्वर्यातस्य पुत्रस्य पत्यादयो धनभाज इत्यस्यापवादमाह -
संसृष्टिनस्तु संसृष्टी
विभक्तं धनं पुनर्मिश्रीकृतं संसृष्टं तदस्यास्तीति संसृष्टी । संसृष्टत्वं च न येन केनापि किंतु पित्रा भ्रात्रा पितृव्येण वा । यथाह बृहस्पतिः - 'विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः । पितृव्येणाथवा प्रीत्या स तत्संसृष्ट उच्यते ॥' इति । तस्य संसृष्टिनो मृतस्यांशं विभागं विभागकाले भविज्ञातगर्भायां भार्यायां पश्चादुत्पन्नस्य पुत्रस्य संसृष्टी दद्यात् । पुत्राभावे संसृष्ट्येवापहरेगृह्णीयान्न पत्यादिः ॥
संसृष्टिनस्तु संसृष्टीत्यस्यापवादमाह
सोदरस्य तु सोदरः ।
दद्यादपहरेच्चांश जातस्य च मृतस्य च ॥ १३८ ॥
२२५
४ अत्र
१ संबन्धः प्रतिग्रहादिः घ. २ धनसंभवः घ. ३ हि वासोऽपि विभृयात्तथा क. वाक्ये पितृभ्रातृपितृव्यैरेव सह संसृष्टता नान्येन । वचनेऽनुपादानादिति मिताक्षरादिषु विभागकर्तृसामानाधिकरण्येनैव सेति युक्तम् । पित्रादिपदानि तु विभागकर्तृमात्रोपलक्षकाण 'अर्धमन्तर्वेदी मिनोत्यर्थं बहिर्वेदी 'तिवत् । अन्यथा वाक्यभेदात् । तेन पत्नीपितामह - भातृपौत्र पितृव्य पुत्रादिभिरपि सह संसृष्टता भवति । विभक्तो य एकत्र स्थितः स संसृष्ट इति सामानाधिकरण्याद्विभक्तभ्रात्रोः पुत्रादीनां न संसर्गः । विद्यमानं भावि वा धनमा वयोः पुनर्विभागावधि साधारणमित्याकारिका बुद्धिरिच्छा वा संसर्गः । व्यवहारमयूखः.
For Private And Personal Use Only