________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः' इति मनुवचनात्।नारदेनाप्युक्तम्'ब्राह्मणार्थस्य तन्नाशे दायादश्वेन्न कश्चन । ब्राह्मणायैव दातव्यमेनस्वी स्यान्न पोऽन्यथा ॥' इति ॥ क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानामभावे राजा हरेत् । न ब्राह्मणः । यथाह मनुः (९।१८९)-'इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः' इति ॥ १३५ ॥ १३६ ॥
पुत्राः पौत्राश्च दायं गृह्णन्ति तदभावे पत्यादय इत्युक्तं, इदानीं तदुभयापवादमाह
वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः ।
१ वीरमित्रोदये तु-अत्रायं मृतपुंधनाधिकारक्रमः । तत्र प्रथमं पुत्रः तदभावे पौत्रः तदभावे प्रपौत्रः। मृतपितृकपौत्रमृतपितृपितामहकप्रपौत्रयोस्तु पुत्रेण सह युगपदधिकारः। प्रपौ. त्रपर्यन्ताभावे पत्नी । सा च प्राप्तभर्तृदाया भर्तृकुलं तदभावे पितृकुलं वा समाश्रिता सती शरीररक्षार्थ भर्तृदायं भुञ्जीत । तथा भत्रुपकारार्थ यथाकथंचिद्दानादिकमपि कुर्वीत । नतु स्त्रीधनवत्स्वच्छन्दं विनियुञ्जीत । तदभावे दुहिता । तत्र प्रथमं कुमारी तदभावे वाग्दत्ता तद. भावे चोढा । सा च पुत्रवती संभावितपुत्रा च द्वे युगपदेवाधिकारिण्यौ । वन्ध्या विधवा च पुत्रहीना नधिकारिणी । ऊढाया अभावे दौहित्रः । तदभावे पिता तदभारे भ्राता । तत्रापि प्रथमं सोदरः तदभावे वैमात्रेयः । मृतस्य भ्रातृसंसृष्टत्वे तु सोदरमात्रविपये प्रथमं संसृष्टसो. दर एवाधिकारी तदभावे चासंसृष्टसोदरः । एवं वैमात्रेयमात्रविषये प्रथम संसष्टवैमात्रेयः तदभावे चासंसृष्टवैमात्रेयः । यदा तु संसृष्टो वैमात्रेयः सोदरश्च संसृष्टः तदा तावुभौ तुल्यवदधिकारिणौ । भ्रातृणामभावे भ्रातुः पुत्रः । तत्रापि प्रथमं सोदरभ्रातृपुत्रः तदभावे वैमात्रेय भ्रातृपुत्रः । संसर्गे तु सोदरभ्रातृपुत्रमात्रविषये प्रथमं संसृष्टसोदरभ्रातृपुत्रः तदभावे चासंस्: ष्टसोदरभ्रातूपुत्रः । वैमात्रेयभ्रातृपुत्रमात्रविषये प्रथमं संसृष्टवैमात्रेयभ्रातृपुत्रः । तदभावे चासं. सृष्टवैमात्रयभ्रातृपुत्रः । यदा तु सोदरभ्रातृपुत्रोऽसंसृष्टो वैमात्रेयभ्रातृपुत्रश्च संसृष्टः तदा दौ भ्रातृवत्तुल्याधिकारिणौ । भ्रातृपुत्राभाचे तु भ्रातृपौत्रः । तत्रापि भ्रातुः सोदरासोदरक्रमः सं. सर्गासंसर्गक्रमश्च बोध्यः । तदभावे पितृदौहित्रः । स च सोदरभगिनीपुत्रः तदभावे वैमात्रेय. भगिनीपुत्रश्च । तदभावे पितुः सहोदरः । तदभावे पितुर्वैमात्रेयः । तदभावे पितृसोदरपुत्रपितृवैमात्रेयपुत्रपितृसोदरपौत्रपितृवैमात्रेयपौत्राणां क्रमेणाधिकारः । तदभावे पितामहदौहित्रः। तत्रापि पितृसोदरभगिनीपुत्रः वैमात्रेयभगिनीपुत्रश्च । वक्ष्यमाणप्रपितामहदौहित्राधिकारेप्ये. वम् । तदभावे पितामहः । तदभावे पितामही । तदभावे पितामहसोदरभ्रातृवैमात्रयभ्रातृतत्पुत्रपौत्रप्रपितामहदौहित्राः क्रमेणाधिकारिणः । एतावत्पर्यन्तानां धनिभोग्यपिण्डदातॄणां त्वभावे धनिदेयपिण्डभोक्तॄणां मातुलादीनामधिकारस्तदभावे धनिमातृष्वस्त्रीयस्याधिकारः। तदभावे मातुलपुत्रपौत्राणां क्रमेणाधिकारः । तदभावे चाधस्तनसकुल्यानां धनिभोग्यलेपदातॄणां प्रतिणप्तप्रभृतिपुरुषत्रयाणां क्रमेणाधिकारः। तदभावे पुनरूर्वतनसकुल्यानां धनिदेयलेपभोक्तॄणां वृद्धप्रपितामहादिसन्ततीनामासत्तिक्रमेणाधिकारः । तदभावे समानोदकानामधिकारः । तेषामभावे चाचार्यस्य तदभावे शिष्यस्य तदभावे सहवेदाध्यायिब्रह्मचारिणोऽधिकारः । तदभावे चैकग्रामस्थ सगोत्रसमानप्रवरयोः क्रमेणाधिकारः । उक्तपर्यन्तानां सर्वेषां संबन्धिनामभावे ब्राह्मणधनवर्ज राजा गृह्णीयात् । ब्राह्मणधनं तु
विद्यादिगुणयुक्ता ब्राह्मणा गृह्णीयुः । एवं वानप्रस्थधनं भ्रातृत्वेनानुमतोऽपरो वानप्रस्थं एकतीर्थ सेवी गृह्णीयात् । तथा यतिधनं सच्छिध्यः । नैष्ठिकब्रह्मचारिणो धनमाचार्यः । उपकु. णिस्य तु ब्रह्मचारिणो धनं पित्रादिगृह्णीयादिति ज्ञेयम्.
For Private And Personal Use Only