________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। दायविभागप्रकरणम् ८ ] मिताक्षरासहिता।
२२३
न्तरं पितामही गृह्णातीत्यविरोधः ॥ पितामह्याश्चाभावे समानगोत्रजाः सपिण्डाः पितामहादयो धनभाजः भिन्नगोत्राणां सपिण्डानां बन्धुशब्देन ग्रहणात् । तत्र च पितृसन्तानाभावे पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः । पितामहसन्तानाभावे प्रपितामही प्रपितामहस्तत्पुत्रास्तत्सूनवश्वेत्येवमासप्तमात्समानगोत्राणां सपिण्डानां धनग्रहणं वेदितव्यम् । तेषामभावे समा. नोदकानां धनसंबन्धः । ते च सपिण्डानामुपरि सप्त वेदितव्याः । जन्मनामज्ञानावधिका वा । यथाह बृहन्मनुः–'सपिण्डता तु पुरुष सप्तमे विनिवतते । समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥ जन्मनाम्नोः स्मृतेरेके तत्परं गोत्रमुच्यते ॥' इति । ___ गोत्रजाभावे वन्धवो धनभाजः । बन्धवश्च त्रिविधाः आत्मबन्धवः पितृ बैन्धवो मातृबन्धवश्चेति । यथोक्तम्-'आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः । आत्मसातुलपुत्राश्च विज्ञेया आत्मबान्धवाः ॥ पितुः पितृष्वसुः पुत्राः पितुमातृप्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ॥ मातुः पितृध्वसुः पुत्रा मातुर्मातृष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेयाः मातृबान्धवाः॥'
इति ॥ तत्र चान्तरङ्गत्वात्प्रथममात्मबन्धवो धनभाजस्तदभावे पितृबन्धवस्त.:. दभावे मातृबन्धव इति क्रमो वेदितव्यः । बन्धूनामभावे आचार्यः । तदभावे शिष्यः। पुत्राभावे यः प्रत्यासन्नः सपिण्डस्तदभावे आचार्यः । आचार्याभावेऽन्तेवासीत्यापस्तम्बस्मरणात् ॥
शिष्याभावे सब्रह्मचारी धनभाक् । येन सहैकरमादाचार्यादुपनयनाध्य. यनतदर्थज्ञानप्राप्तिः स सब्रह्मचारी । तदभावे ब्राह्मणद्रव्यं यः कश्चित् श्रोत्रियो गृह्णीयात् । 'श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन्' इति गौतमस्मरणात् । तदभावे ब्राह्मणमात्रम् । यथाह मनुः (९।१८८)-'सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः । त्रैविद्याः शुचयो दान्तास्तथा धर्मों न हीयते ॥' इति ॥ न कदाचिदपि ब्राह्मणद्रव्यं राजा गृह्णीयात् (९।१८९)-'अहार्य
१ तदभावे भगिनी 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्' इति मनूक्तः। बहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा । यस्त्वासन्नस्तरस्तेषां सोऽनपत्यधनं हरेत् ॥' इति बृहस्पत्युक्तेः । तस्या अपि भ्रातृगोत्रोत्पन्नत्वेन गोत्रजत्वाविशेषाच्च । सगोत्रता परं नास्ति नच सात्र धनग्रहणप्रयोजकत्वेनोक्ता इति व्य० मयूखः. २ मनुस्मृतौ तदभावे सकुल्यः स्यादाचार्यः शिष्य एव वा' इत्यत्र सकुल्यशब्देन सगोत्रसमानोदकानां मातुलादीनां बन्धुत्रयस्य ग्रहणम् । योगीश्वरवचनेऽपि बन्धुपदेन मातुललक्षणमन्यथा मातुलादीनामग्रणमेव प्रसज्येतेति तत्पुत्राणां धनाधिकारस्ततः प्रत्यासन्नानां तेषां स नेति महदनौचित्यमापयेत. ३ ननु पत्यादीनां सर्वेषां मृतनिरूपितानामेव धनभाक्त्वं बान्धवानामपि तथैवास्तु अतः कथं पितुर्मातुश्च बान्धवानां धनसंवन्धः, 'पितुः पितृष्वसुः पुत्राः' इत्यादि तु संज्ञासंज्ञिसंवन्धमात्रार्थ न धनसंबन्धार्थमिति चेदुच्यते । विनाप्येतद्वचनं पितृमातुल पितृव्यादिष्विव पितृमातृबान्धवेष्वपि योगेनैव तच्छन्नप्रवृत्तिसंभवे संज्ञासंज्ञिसंबन्धबोधनानर्थक्यापत्तेः । तेन बन्धूनुद्दिश्य धनसं. बन्धविधौ पितृमातृबन्धुप्रापणेनैव वचोर्थवत्ता । बन्धूद्देशेनाशौचादिविधावप्येवमेवेति दिक.
या० २२
For Private And Personal Use Only