________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
स्थादिति धर्मो व्यवस्थितः ॥' इति । तथा वसिष्ठोऽपि 'रिक्थलोभानास्ति नियोगः' इति रिक्थलोभान्नियोगं प्रतिषेधयन् नियोगद्वारक एव पत्याः धनसंबन्धो नान्यथेति दर्शयति । नियोगाभावेऽपि पल्या भरणमात्रमेव नारदवचनात् 'भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात्' इति । योगीश्वरेणापि किल वक्ष्यते-'अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥' इति अपिच । द्विजातिधनस्य यथार्थत्वात्स्त्रीणां च यज्ञेऽनधिकाराद्धनग्रहणमयुक्तम् । तथाच केनापि स्मृतम्-'यज्ञार्थे द्रव्यमुस्पन्नं तत्रानधिकृतास्तु ये । अरिक्थभाजस्ते सर्वे ग्रासाच्छादनभाजनाः ॥ यज्ञार्थ विहितं वित्तं तस्मात्तद्विनियोजयेत् । स्थानेषु धर्मजुष्टेषु न स्त्रीमूर्खविधर्मिषु ॥' इति । तदनुपपन्नम् । 'पनी दुहितरः' इत्यत्र नियोगस्याप्रतीतेरप्रस्तुतत्वाच्च । अपिचेदमत्र वक्तव्यम् । पत्नयाः धनग्रहणे नियोगो वा निमित्तं तदुत्पन्नमपत्यं वा । तत्र नियोगस्यैव निमित्तत्वे अनुत्पादितपुत्राया अपि धनसंबन्धः प्राप्नोति । उत्पन्नस्य च पुत्रस्य धनसंबन्धो न प्राप्नोति । अथ तदपत्यस्यैव निमित्तत्वं, तथा सति पुनस्यैव धनसंबन्धात्पनीति नारब्धव्यम् ॥
अथ स्त्रीणां पतिद्वारको धनसंबन्धः पुत्रद्वारको वा नान्यथेति मतम् । तदप्यसत् । (मनुः ९।१९४)–'अध्यग्न्यध्यावह निकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्त पड्डिधं स्त्रीधनं स्मृतम् ॥' इत्यादिविरोधात् । किंत्र । सर्वथा पुत्राभावे 'पत्नी दुहितरः' इत्यारब्धम् । तत्र नियुक्ताया धनसंबन्धं वदता क्षेत्रजस्यैव धनसंबन्ध उक्तो भवति । सच प्रागेवाभिहित इति 'अपुनप्रकरणे पत्नीति नारब्धव्यम् । 'अथ पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन्स्त्री वानपत्यस्य बीजं वा लिप्सेत्' इति गौतमवचनान्नियुक्ताया धनसंबन्ध इति । तदप्यसत् । नहि यदि बीजं लिप्सेत तदाऽनपत्यस्य स्त्री धनं गृह्णीयादित्ययमर्थोऽस्मात्प्रतीयते । किंतु 'अनपत्यस्य धनं पिण्डगोत्रर्षिसंबन्धा भजेरन्स्त्री वा सो स्त्री बीजं वा लिप्सेत संयता वा भवेत्' इति तस्या धर्मान्तरोपदेशः । वाशब्दस्य पक्षान्तरवचनत्वेन यद्यप्रितीतेः। अपिच संयताया एव धनग्रहणं युक्तं न नियुक्तायाः स्मृतिलोकनिन्दितायाः । 'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्त्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥' इति संयताया एव धनग्रहणमुक्तम् ॥
तथा नियोगश्च निन्दितो मनुना (९।६४)-'नान्यस्मिन्विधवा ! नारी नियोक्तव्या द्विजातिभिः। अन्यस्मिन् हि नियुञ्जाना धर्म हन्युः सनातनम् ॥' इत्यादिना । यत्तु वसिष्ठवचनम् 'रिक्थलोभानास्ति नियोगः' इति, तदविभक्ते संसृष्टिनि वा भर्तरि प्रेते तस्या धनसंबन्धो नास्तीति स्वापत्यस्य धनसंबन्धार्थ नियोगो न कर्तव्य इति व्याख्येयम् । यदपि नारद. वचनम्-'भरणं चास्य कुरिन्स्त्रीणामाजीवनक्षयात्' इति, तदपि 'संस.
१ संबन्धो युक्तो घ. २ सा बीजं वा घ. ३ संसृष्टिनां तु. घ.
For Private And Personal Use Only