________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता ।
२१९
टानां तु यो भागस्तेषामेव स इष्यते' इति संसृष्टानां प्रस्तुतत्वात्तत्स्त्रीणामनपत्यानां भरणमात्रप्रतिपादनपरम् । नच 'भ्रातॄणामप्रजाः प्रेया' दित्येतस्य संसृष्टिविषयत्वे 'संसृष्टानां तु यो भाग' इत्यनेन पौनरुक्त्यमाशङ्कनीयम् । यतः पूर्वोक्तिविवरणेन स्त्रीधनस्याविभाज्यत्वं तत्स्त्रीणां च भरणमात्रं विधीयते । यदपि 'अपुत्रा योषितश्चैषाम्' इत्यादिवचनं तत् क्लीबादिस्त्रीविषयमिति वैक्ष्यते । यत्तु द्विजातिधनस्य यज्ञार्थत्वात्स्त्रीणां च यज्ञेऽनधिकाराद्धनग्रहणमयुक्त' मिति,तदसत् । सर्वस्य द्रव्यजातस्य यज्ञार्थत्वे दानहोमाद्यसिद्धेः । अथ यज्ञशब्दस्य धर्मोपलक्षणत्वादानहोमादीनामपि धर्मत्वात्तदर्थत्वमविरुद्धमिति मतम् । एवं तयर्थकामयोर्धनसाध्ययोरसिद्धिरेव स्यात् । तथा सति 'धर्ममथं च कामं च यथाशक्ति न हापयेत्' । तथा 'न पूर्वाह्नमध्यन्दिनापराह्लानफलान्कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः' । तथा 'न तथैतानि शक्यन्ते संनियन्तुमसेवया' इत्यादियाज्ञवल्क्यगौतममनुवचनविरोधः । अपिच धनस्य यज्ञार्थत्वे हिरण्यं धार्य: मिति हिरण्यसाधारणस्य क्रत्वर्थतानिराकरणेन पुरुषार्थत्वमुक्तं तत्प्रत्युद्धृतं स्यात् । किंच यज्ञशब्दस्य धर्मोपलक्षणपरत्वे स्त्रीणामपि पूर्तधर्माधिका. राद्धनग्रहणं युक्ततरम् । यत्तु पारतन्त्र्यवचनं 'न स्त्री स्वातन्त्र्यमर्हति' इत्यादि तदस्तु पारतत्र्यं, धनस्वीकारे तु को विरोधः ॥ कथं तर्हि 'यज्ञार्थ द्रव्यमुत्पनम्' इत्यादिवचनम् , उच्यते---'यज्ञार्थमेवार्जितं यद्धनं तद्यज्ञ एव नियोक्तव्यं पुत्रादिभिरपी' त्येवंपरं तत् । --'यज्ञार्थं लब्धमददद्भासः काकोपि वा भवेत्' इति दोषश्रवणस्य पुत्रादिष्वविशेषात् । यदपि कात्यायनेनोक्तम्'अदायिकं राजगामि योषिद्धृत्यौवंदेहिकम् । अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत् ॥' इति । अदायिकं दायादरहितं यद्धनं तद्राजगामि राज्ञो भवति, योषिद्धृत्योर्ध्वदेहिकमपास्य, तत्स्त्रीणामशनाच्छादनोपयुक्तं और्ध्वदेहिकं धनिनः श्राद्धाधुपयुक्तं चापरस्य परिहृत्य राजगामि भवतीति संबन्धः । अस्यापवाद उत्तरार्धे । श्रोत्रियद्रव्यं च योषिद्धृत्योर्ध्वदेहिकमपास्य श्रोत्रियायोपपादये दिति तदप्यवरुद्धस्त्रीविषयम् । योषिद्हणात् । नारदवचनं च-'अन्यत्र ब्राह्मणा. किंतु राजा धर्मपरायणः । तत्स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः ॥' इत्यवरुद्धस्त्रीविषयमेव । स्त्रीशब्दग्रहणात् । इह तु पत्नीशब्दादूढायाः संयताया धनग्रहणमविरुद्धम् । तस्माद्विभक्तासंसृष्टिन्यपुत्रे स्वर्याते पत्नी धनं प्रथमं गृह्णातीत्ययमर्थः सिद्धो भवती । विभागस्योक्तत्वात्संसृष्टिनां तु वक्ष्यमाणत्वात् । एतेनाल्पधनविषयत्वं श्रीरादिभिरुक्तं निरस्तं वेदितव्यम् । तथा ह्यौरसेषु पुत्रेषु सरस्वपि जीवद्विभागे अजीवद्विभागे च पल्याः पुत्रसमांशग्रहणमुक्तम्-'यदि कुर्यात्समानंशान् पत्यः कार्याः समांशिकाः' इति । तथा—'पितुरूवं विभजतां माताप्यंशं समं हरेत्' इति च, तथासत्यपुत्रस्य स्वर्यातस्य धनं पत्नी भरणादतिरिक्तं न लभत इति व्यामोहमात्रम् । अथ 'पत्यः कार्याः समांशिकाः' इत्यत्र
१ संसृष्टिनां तु घ. २ वक्ष्यति घ. दिष्वप्यविशेषात् घ. ४ आदायकं घ. ५ ऽपवादः । श्रोत्रिय ख. घ. ६ श्रीकरादिभिः घ. ७ तथा पत्त्यः घ.
For Private And Personal Use Only