________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८] मिताक्षरासहिता ।
२१५
प्रासाच्छादनभाजनाः ॥' इति । सवर्णा दत्तक क्षेत्रजादयस्ते सत्यौरसे चतुर्थांशह'राः । असवर्णाः कानीनगूढोत्पन्नसहोढ जपौनर्भवास्ते त्वौरसे सति न चतुर्थीशहराः किंतु ग्रासाच्छादनभाजनाः । यदपि विष्णुवचनम् - 'अप्रशस्तास्तु कानीनगूढोत्पन्नसहोढजाः । पौनर्भवश्च नैवैते पिण्डरिक्थांशभागिनः ॥' इति । तदप्यरसे सति चतुर्थांशनिषेधपरमेव । औरसाद्यभावे तु कानीनादीनामपि I सकलपित्र्यधनग्रहणमस्त्येव । ' पूर्वाभावे परः परः' इति वचनात् ॥ यदपि मनुवचनम् (९।१६३ ) – ' एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणामानृशंस्यार्थ प्रदद्यात्तु प्रजीवनम् ॥' इति, तदपि दत्तकादीनामौरसप्रतिकूलत्वे निर्गुणत्वे च वेदितव्यम् । तत्र क्षेत्रजस्य विशेषो दर्शितस्तेनैव (मनुः ९।१६४ ) - 'पष्टं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभजन्दायं पित्र्यं पञ्चममेव वा ॥' इति । प्रतिकूलत्व निर्गुणत्वसमुच्चये षष्ठमंशम्, एकतरसद्भावे पञ्चममिति विवेक्तव्यम् ॥ यदपि मनुना पुत्राणां षट्कद्वयमुपन्यस्य पूर्वषट्कस्य दायादबान्धवत्वं, उत्तरषट्कस्यादायादबान्धवत्वमुक्तम् (मनुः ९ | १५९/१६० ) - 'औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ कानीनश्च सहोदश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः ॥' इति, तदपि स्वपितृसपिण्डसमानोदकानां संनिहितरिक्थहरान्तराभावे पूर्वस्य तद्विक्थहरत्वमुत्तरषङ्कस्य तु तन्नास्ति । बान्धवत्वं पुनः समानगोत्रत्वेन सपिण्डत्वेन चोदकप्रदानादिकार्यकरत्वं वर्गद्वयस्यापि सममेवेति व्याख्येयम् ॥ ( मनुः ९११४२ ) - ' गोत्ररिक्थे जनयितुर्न भजेद्दत्रिमः सुतः । गोनेरिक्थानुगः पिण्डो व्यपैति ददतः स्वधाम् ॥' इत्यत्र दत्रिमग्रहणस्य 'पुत्र प्रतिनिधिप्रदर्शनार्थत्वात् । पितृधनहारित्वं तु पूर्वस्य पूर्वस्याभावे सर्वेषामविशिष्टम् । (मनुः ९।१८५ ) -- ' न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । ' इत्यौरसव्यतिरिक्तानां पुत्रप्रतिनिधीनां सर्वेषां रिक्थहारित्वप्रतिपादनपरत्वात् । औरसस्य तु (मनुः ९।१६३ ) – एक एवैौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।' इत्यनेनैव रिक्थभाक्त्वस्योक्तत्वात् । दायादशब्दस्य 'दायादानपि दापयेत्' इस्यादौ पुत्रव्यतिरिक्तरिक्थभाग्विषयत्वेन प्रसिद्धत्वाच्च । वासिष्ठादिषु वर्गद्वयेऽपि कस्यचिद्व्यत्ययेन पाठो गुणवदगुणवद्विषयो वेदितव्यः । गौतमीये तु 'पौत्रिकेयस्य दशमत्वेन पाठो विजातीयविषयः । तस्मात्स्थितमेतत्पूर्वपूर्वाभावे परः परों
भाग 'ति ॥ यत्तु (९।१८२ ) - ' भ्रातृणामेकजातानामे कश्चेत्पुत्रवान्भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥' इति । तदपि भ्रातृपुत्रस्य पुत्रीकरणसंभवेऽन्येषां पुत्रीकरणनिषेधार्थम्, न पुनः पुत्रत्वप्रतिपादनाय । 'तत्सुता गोत्रजा बन्धु: -' इत्यनेन विरोधात् ॥ १३२ ॥
१ गोत्रेति गोत्ररिवधे अनुगच्छतीति गोत्ररिक्थानुगः प्रायस्तत्समनियत इति यावत् । दत्रिमः केवलः द्वयामुष्यायणे गोत्राद्यनुवृत्तेः । पिण्डः श्राद्धमौर्ध्वदेहिकादीति मेधातिथिकुहूकभट्टादयः । पिण्डः सापिण्ड्यं, स्वधौर्ध्वदेहिक श्राद्धादीत्यपरे व्य. म. २ ( मनुः ८/१६०) 'दानप्रतिभुवि प्रेते' इति पूर्वार्धमस्य. दानप्रतिभुवि तु पितरि मृते पुत्रं ऋणं दापयेदिति तस्यार्थः.
For Private And Personal Use Only
+