________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८] मिताक्षरासहिता ।
२०९
शाच्चतुर्थमंशं दत्त्वा । अनेन दुहितरोऽपि पितुरूर्ध्वमंशभागिन्य इति गम्यते । तत्र निजादंशादिति प्रत्येकं परिकल्पितादेशादुद्धृत्य चतुर्थांशो दातव्य इत्ययमर्थो न भवति, किंतु यज्जातीया कन्या तज्जातीयपुत्रभागाच्चतुर्थांशभागिनी सा कर्तव्या । एतदुक्तं भवति । यदि ब्राह्मणी सा कन्या तदा ब्राह्मणीपुत्रस्य यावानंशो भवति तस्य चतुर्थीशस्तस्या भवति । तद्यथा । यदि कस्यचिद्राह्मणस्यैका पत्नी पुत्रश्चैकः कन्या चैका तत्र पित्र्यं सर्वमेव द्रव्यं द्विधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं पुत्रो गृह्णीयात् । यदा तु द्वौ पुत्रौ एका च कन्या तदा पितृधनं सर्वं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं द्वौ पुत्रौ विभज्य गृह्णीतः ॥ अथ वेकः पुत्र कन्ये तदा पित्र्यं धनं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तत्र द्वौ भागौ द्वाभ्यां कन्याभ्यां दत्त्वावशिष्टं सर्व पुत्रो गृह्णातीत्येवं समानजातीयेषु समविषमेषु भ्रातृषु भगिनीषु च योजनीयम् । यदा तु ब्राह्मणीपुत्र एकः क्षत्रियाकन्या चैका तत्र पितृधनं सप्तधा विभज्य क्षत्रियापुत्रभागांस्त्रींश्चतुर्धा विभज्य तुरीयांशं क्षत्रियाकन्यायै दत्त्वा शेषं ब्राह्मणीपुत्र गृह्णाति । यत्र तु द्वौ ब्राह्मणीपुत्रौ क्षत्रियाकन्या चैका तत्र पित्र्यं धनमेकादशधा विभज्य तेषु श्रीनंशान् क्षत्रियापुत्रभागांश्चतुर्धा विभज्य चतुर्थमंशं क्षत्रियाकन्यायै दत्त्वा शेषं सर्व ब्राह्मणीपुत्रौ विभज्य गृह्णीतः ॥ एवं जातिवैपम्ये भ्रातॄणां भगिनीनां च संख्यायाः साम्ये वैषम्ये च सर्वत्रोहनीयम् । नच 'निजादंशाद्दत्त्वांशं तु तुरीयक' मिति तुरीयांशाविवक्षया संस्कारमात्रोपयोगि द्रव्यं दत्त्वेति व्याख्यानं युक्तम् । मनुवचनविरोधात् (९।११८) —'स्वेभ्योऽशेभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक् । स्वात्स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः ॥' इति । अस्यार्थः । ब्राह्मणादयो भ्रातरो ब्राह्मणीप्रभृतिभ्यो भगिनीभ्यः स्वेभ्यः स्वजातिविहितेभ्योऽशेभ्यः 'चतुरोऽशान्हरेद्विप्र' इत्यादिवक्ष्यमाणेभ्यः स्वात्स्वादशादात्मीयादात्मीयाद्भागाच्चतुर्थं चतुर्थ भागं दद्युः । नचात्रामीयभागादुद्धृत्य चतुर्थांशो देय इत्युच्यते किंतु स्वजातिविहितादेकस्मादेकस्सादेशात्पृथक् पृथकस्याप्येकस्यै कन्यायै चतुर्थोऽशो देय इति जातिवैषम्ये संख्यावैषम्ये च विभागक्लृप्तिरुक्तैव । 'पतिताः स्युरदित्सव' इत्यकरणे प्रत्यवायश्रवणादariदातव्यता प्रतीयते । अत्रापि चतुर्थभागवचनमविवक्षितं संस्कारमात्रोपयोगिद्रव्यदानमेव विवक्षितमिति चेन्न । स्मृतिद्वयेऽपि चतुर्थांशदानाविवक्षायां प्रमाणाभावाददाने प्रत्यवायश्रवणाच्चेति । यदपि कैश्चिदुच्यते । अंशदानविवक्षायां बहुभ्रातृकायाः बहुधनत्वं बहुभगिनीकस्य च निर्धनता प्राप्नोतीति तदुक्तरीत्या परिहृतमेव । नह्यत्रात्मीयाद्भागादुद्धृत्य चतुर्थांशस्य दानमुच्यते येन तथा स्वात् । अतोऽस्मत्सहायमेधातिथिप्रभृतीनां व्याख्यानमेव चैतुरस्रं न भारुचेः ।
१ इत्येवमर्थो ख. इत्यर्थो ग. २ कस्यचिद्राह्मण्येवैका ख. ३ अथतु ग. घ. ४ गृह्णीयात् एवं ग. ५ पित्र्यं धनं घ. ६ गृह्णीयात् ग. ७ गृह्णीयाताम् ग. ८ नच दत्वांशं तु ग. घ. ९ संस्कारोपयोगि ख. १० बहुधनकत्वं घ. ११ वरिष्ठं न भागुरेः ख.
For Private And Personal Use Only
1