________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता ।
२०७ पितुरिच्छयैव विभागो नापि पितुर्भागद्वयम् । अतश्च पितृतो भागकल्पनेत्येतस्वाम्ये समेऽपि वाचनिकम् । 'विभागं चेत्पिता कुर्यात्' इत्येतत्स्वार्जितविषयम् । तथा-'द्वावंशौ प्रतिपद्येत विभजन्नात्मनः पिता' इत्येतदपि वार्जिदविषयम् ।-'जीवतोरस्वतन्त्रः स्याजरयापि समन्वितः' इत्येतदपि पारतव्यं मातापित्रर्जितद्रव्यविषयम् । तथा-'अनीशास्ते हि जीवतोः' इत्येतदपि । तथा सरजस्कायां मातरि सस्पृहे च पितरि विभागमनिच्छत्यपि पुत्रेच्छया पैतामहद्रव्यविभागो भवति । तथाऽविभक्तेन पित्रा पैतामहे द्रव्ये दीयमाने विक्रीयमाणे वा पौत्रस्य निषेधेऽप्यधिकारः । पिवर्जिते न तु निषेधाधिकारः। तत्परतत्रत्वात् । अनुमतिस्तु कर्तव्या । तथाहि-पैतृके पैतामहे च स्वाम्यं यद्यपि जन्मनैव, तथापि पैतृके पितृपरतन्त्रत्वात् पितुश्चार्जकत्वेन प्राधान्यात् पित्रा विनियुज्यमाने स्वार्जिते द्रव्ये पुत्रेणानुमतिः कर्तव्या । पैतामहे तु द्वयोः स्वाम्यमविशिष्टमिति निषेधाधिकारोऽस्तीति विशेषः । मनुरपि (९।२०९)'पैतृकं तु पिता द्रव्यमनवाप्तं यदामुयात् । न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥' इति । यत्पितामहार्जितं केनाप्यपहृतं पितामहेनानुद्धृतं यदि पितो. द्धरति तत्स्वार्जितमिव पुत्रैः सार्धमकामः स्वयं न विभजेदिति वदन् पितामहार्जितमकामोऽपि पुत्रेच्छया पुत्रैः सह विभजेदिति दर्शयति ॥ १२ ॥ विभागोत्तरकालमुत्पन्नस्य पुत्रस्य कथं विभागकल्पनेत्यत आह
विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । विभक्तेषु पुत्रेषु पश्चात्सवर्णायां भर्यायामुत्पन्नो विभागभाक् । विभज्यत इति विभागः । पित्रोविभागस्तं भजतीति विभागभाक् । पित्रोरूर्व तयोरंशं लभत इत्यर्थः । मातृभागं चासत्यां दुहितरि । 'मातुर्दुहितरः शेषम्' इत्युक्तत्वात् । असवर्णायामुत्पन्नस्तु स्वांशमेव पित्र्यालभते । मातृकं तु सर्वमेव । एतदेव मनुनोक्तम् (९।२१६)--'ऊर्ध्वं विभागाजातस्तु पित्र्यमेव हरेद्धनम्' इति । पित्रोरिदं पित्र्यमिति व्याख्येयम् ।-'अनीशः पूर्वजः पित्रोतुर्भागे विभक्तजः' इति स्मरणात् । विभक्तयोर्मातापित्रोविभागे विभागात्पूर्वमुत्पन्नो न स्वामी विभक्तजश्च भ्रातुर्भागे न स्वामीत्यर्थः । तथा विभागोत्तरकालं पित्रा यत्किंचिदर्जितं तत्सर्वं विभक्तजस्यैव । -'पुत्रैः सह विभक्तेन पित्रा यत्स्वयमर्जितम् । विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः ॥' इति स्मरणात् । ये च विभक्ताः पित्रा सह संसृष्टाः तैः सार्धं पितुरूवं विभक्तजो विभजेत् । यथाह मनुः (९।२१६)-'संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह' इति ॥ पितुरूवं पुत्रेषु विभक्तेषु पश्चादुत्पन्नस्य कथं विभागकल्पनेत्यत आह
दृश्यावा तद्विभागः स्यादायव्ययविशोधितात् ॥ १२२ ॥ तस्य पितरि प्रेते भ्रातृविभागसमयेऽस्पष्टगर्भायां मातरि भ्रातृविभागोत्तर१ पितुः स्वार्जकत्वेन ख. २ कारोप्यस्तीति ख. ३ मातुर्भागं तु सर्वमेव ग-ध.
For Private And Personal Use Only