________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता।
विभागाध्यभावात् । यद्येन लब्धं तत्तस्यैव नान्यस्येति प्रसिद्धतरम् । प्राप्तिपूर्वकश्च प्रतिषेधः । अत्र कश्चिदित्थं प्राप्तिमाह–'यत्किचित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥' इति । ज्येष्ठो वा कनिष्टो वा मध्यमो वा पितरि प्रेते अप्रेते वा यवीयसां वर्षीयसां चेनि व्याख्यानेन पितरि सत्यसति च मैत्रादीनां विभाज्यत्वं प्राप्तं प्रतिषिध्यत इति । तदसत् । नात्र प्राप्तस्य प्रतिषेधः किंतु सिद्धस्यैवानुवादोऽयम् । लोकसिद्धस्यैवानुवादकान्येव प्रायेणास्मिन्प्रकरणे वचनानि । अथवा 'समवेतैस्तु यत्प्राप्त सर्वे तन समांशिनः।' इति प्राप्तस्यापवाद इति संतप्यतु भवान् । अतश्च 'यत्किंविल्पितरि प्रेते' इत्यस्मिन्वचने ज्येष्ठादिपदाविवक्षया प्राप्तिरिति व्यामोहमात्रं । अतो मैत्रादिवचनैः पितुः प्रागूर्व वा विभाज्यत्वेनोक्तस्य 'यत्किंचिपितरि प्रेते' इत्यैपवाद इति व्याख्येयम् । तथान्यदप्यविभाज्यमुक्तं मनुना (९।२१९)-'वस्त्रं पत्रमलंकारं कृतान्नमुदकं स्त्रियः। योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥' इति । तानामेव वस्त्राणामविभाज्यत्वं, यद्येन वृतं तत्तस्यैव । पितृतवस्त्राणि तु पितुरूज़ विभजतां श्राद्धभोके दातव्यानि । यथाह वृहस्पतिः-'वस्त्रालंकारशय्यादि पितुर्यद्वाहनादिकम् । गन्धमाल्यैः समभ्यर्च्य श्राद्धभोके समर्पयेत् ॥' इति । अभिनवानि तु वस्त्राणि विभाज्यान्येव । पत्रं वाहनमश्चशिबिकादि तदपि यद्येनारूढं तत्तस्यैव । पित्र्यं तु वस्त्रवदेव । अश्वादीनां बहुत्वे तु तद्विक्रयोपजीविनां विभाज्यत्वमेव । वैषम्येण विभाज्यत्वे ज्येष्ठस्य (मनुः ९।११९)—'अजाविकं सैकशर्फ न जातु विषमं भजेत् । अजाविक सैकशर्फ ज्येष्ठस्यैव विधीयते ॥' इति मनुस्मरणात् । अलंकारोऽपि यो येन पृतः स तस्यैव । अतः साधारणो विभाज्य एव । ( मनुः ९।२००) -पत्यो जीवति यः स्त्रीभिरलंकारो तो भवेत् । न तं भजेरन्दायादा भजमानाः पतन्ति ते॥' इति । अलंकारो धृतो भवेदिति विशेषेणोपादानादधतानां विभाज्य वं गम्यते । कृतान्नं तण्डुलमोदकादि तदप्यविभाज्यं यथासंभवं भोक्तव्यम् । उदकं उदकाधारः कूपादिः, तच्च विषमं मूल्यद्वारेण न विभाज्यं पर्यायेण पभोक्तव्यम् । स्त्रियश्च दास्यो विषमाः न मूल्यद्वारेण विभाज्याः पर्यायेण कर्म कारयितव्याः । अवरुद्धास्तु पित्रा स्वैरिण्याद्याः समा अपि पुत्रैर्न विभाज्याः । 'स्त्रीषु च संयुक्तास्त्र विभागः' इति गौतमस्मरणात् । योगश्च क्षेमं च योगक्षेमम् । योगशब्देनालब्धलाभकारणं श्रौतस्मार्ताग्निसाध्यं इष्टं कर्म लक्ष्यते । क्षेमशब्देन लब्धपरिरक्षणहेतुभूतं बहिर्वेदिदानतडागारामनिर्माणादि पूर्त कर्म लक्ष्यते । तदुभयं पैतृकमपि पितृद्रव्यविरोधार्जितमप्यविभाज्यम् । यथाह लौगाक्षिः-'क्षेमं पूर्त योगमिष्टमित्याहुस्तत्त्वदर्शिनः । अविभाज्ये च ते प्रोक्ते शयनासनमेव च ॥' इति । योगक्षेमशब्देन योगक्षेमकारिणो राजमन्त्रिपुरोहितादय उच्यन्ते इति केचित् । छत्रचामरशस्त्रोपानत्प्रभृतय इत्यन्ये ।
१ निषेयः घ. २ चाविभाज्य घ. ३ इत्यस्यापवाद ख. ४ पितृधृतानि ख. ५ पतन्त्यधः ग. ६ विशेषस्योपादाना ग. ७ करणं ख.
For Private And Personal Use Only