________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
२०४
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः अविभाज्यमाह
पितृद्रव्याविरोधेन यदन्यत्स्वयमर्जितम् । मैत्रमौद्वाहिकं चैव दायादानां न तद्भवेत् ॥ ११८॥ क्रमादभ्यागतं द्रव्यं हृतमप्युद्धरेत्तु यः।
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥ ११९ ॥ मातापित्रोद्रव्याविनाशेन यत्स्वयमर्जितं, मैत्रं मित्रसकाशाद्यल्लब्धं, औद्वाहिकं विवाहाचल्लब्धं दायादानां भ्रातृणां तन्न भवेत् । क्रमात्पित्तक्रमादायातं यत्किंचिद्रव्यं अन्यैर्हतमसामर्थ्यादिना पित्रादिभिरनुद्धृतं यः पुत्राणां मध्य इतराभ्यनुज्ञयोद्धरति तदायादेभ्यो भ्रात्रादिभ्यो न दद्यादुद्ध व गृह्णीयात् । 'तत्र क्षेत्रे तुरीयांशमुद्धर्ता लभते शेषं तु सर्वेषां सममेव । यथाहः शङ्ख:'पूर्व नष्टां तु यो भूमिमेकश्चेदुद्धरेत्क्रमात् । यथाभागं लभन्तेऽन्ये दत्त्वांशं तु तुरीयकम् ॥' इति । क्रमादभ्यागतमिति शेषः । तथा विद्यया वेदाध्ययनेनाध्यापनेन वेदार्थव्याख्यानेन वा यल्लब्धं तदपि दायादेभ्यो न दद्यात् । अर्जक एव गृह्णीयात् । अत्र च 'पितृद्रव्याविरोधेन यत्किंचित्स्वय मर्जितम् ॥' इति सर्वशेषः । अतश्च पितृद्रव्याविरोधेन यन्मैत्रमर्जितं, पितृद्र याविरोधेन यदौवाहिकं, पितृद्रव्याविरोधेन यत्नमायातमुद्धृतं, पितृद्रव्यविरोधेन विद्यया यल्लब्धमिति प्रत्येकमभिसंबध्यते । तथाच पितृद्रव्याविरोधेन प्रत्युपकारेण यन्मैत्रम् , आसुरादिविवाहेषु यल्लब्धम् , तथा पितृद्रव्यव्ययेन यत्क्रमायातमुद्धृतं तथा पितृगव्यव्ययेन लब्धया विद्यया यल्लब्धं, तत्सर्वं सर्वैतृभिः पित्रा च विभैजनीयम् । तथा पितृगव्याविरोधेनेत्यस्य सर्वशेषत्वादेव पितृद्रव्यविरोधेन प्रतिग्रहलब्धमपि विभजनीयम् । अस्य च सर्वशेषत्वाभावे मैत्रमौ द्वाहिकमित्यादि नारब्धव्यम् । अथ पितृद्रव्यविरोधेनापि यन्मैत्रादिलब्धं तस्याविभाज्यत्वाय मैत्रादिवचनमर्थवदित्युच्यते । तथा सति समाचारविरोधः, विद्यालब्धे नारदवचनविरोधश्च ।-'कुटुम्बं बिभृयाद्रातुर्यो विद्यामधिगच्छतः । भागं विद्याधनात्तस्मात्स लभेताश्रुतोऽपि सन् ॥' इति । तथा विद्याधनस्याविभाज्यस्य लक्षणमुक्तं कात्यायनेन-'परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या । तया लब्धं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥' इति । तथा पितृगव्याविरोधेनेत्यस्य भिन्नवाक्यत्वे प्रतिग्रहलब्धस्याविभाज्यत्वमाचारविरुद्धमापद्येत । एतदेव स्पष्टीकृतं मनुना (९।२०८)-'अनुपनन्पितृद्रव्यं श्रमेण यदुपार्जितम् । दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥' इति श्रमेण सेवायुद्वादिना । ननु पितृगव्याविरोधेन यन्मैत्रादिलब्धं द्रव्यं तदविभाज्यमिति न बक्तव्यम् ।
१ सर्वत्र शेषः ख. २ क्रमादायातं ख. ३ समं विभजनीयं ग. ४ विरोधशापयेत घ. ५ दायादेभ्य इत्यस्य स्थाने 'स्वयमीहितलब्धं तन्नाकामो दातुमर्हति' इत्युत्तरार्ध मनुः स्मृतावुपलभ्यते.
For Private And Personal Use Only