________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८] मिताक्षरासहिता।
२०३ विषमो विभागः शास्त्रदृष्टस्तथापि लोकविद्विष्टत्वान्नानुष्ठेयः।-'अस्वयं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु' इति निषेधात् । यथा-'महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्' इति विधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । यथावा -'मैत्रावरुणीं गां शामनुवन्ध्यामालभेत' इति गवालम्भनविधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । उक्तंच-'यथा नियोगधर्मो नो नानुवन्ध्यावधोऽपि वा । तथोद्धारविभागोऽपि नैव संप्रति वर्तते ॥' इति । (नियोगमेनतिक्रम्य यथा नियोग, नियोगाधीनो यो धर्मों 'देवराच सुतोत्पत्ति' रित्यादिः स नो भवति) आपस्तम्बोऽपि-'जीवन्पुत्रेभ्यो दायं विभजेत्समम्' इति समतामुक्त्वा'ज्येष्ठो दायाद इत्येक' इति कृत्स्नधनग्रहणं ज्येष्ठस्यैकीयमतेनोपन्यस्य देशविशेषेण सुवर्ण कृष्णा गावः कृष्णभौमः ज्येष्टस्य रथः पितुः परीभाण्डं च गृहेऽलंकारो माया ज्ञातिधनं चेत्येके' इत्येकीयमतेनैवोद्धारविभागं दर्शयित्वा तच्छास्त्रविप्रतिषिद्धमिति निराकृतवान् । तं च शास्त्रविप॑तिषेधं स्वयमेव दर्शयतिस्म मनुः--'पुत्रेभ्यो दायं विभजेदित्यविशेषेण श्रूयते' इति । तस्माद्विषमो विभागः शास्त्रदृष्टोऽपि लोकविरोधाच्छृतिविरोधाच्च नानुष्ठेय इति सममेव विभजेरनिति नियम्यते ॥ मानापित्रोधनं सुता विभजेरन्नित्युक्तं तत्र मातृधनेऽपवादमाह
मातुर्दुहितरः शेषमृणात् मातुर्धनं दुहितरो विभजेरन् । ऋणाच्छेषं मातृकृतांपाकरणावशिष्टं अतश्वर्णसनं न्यूनं वा मातृधनं सुता विभजेरन्नित्यस्य विषयः । एतदुक्तं भवति -~-मातृकृतमणं पुत्रैरेवापाकरणीयं न दुहितृभिः । ऋणावशिष्टं तु धनं दुहितरो गृह्णीयुरेति । युक्तं चैतत् ।-'पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः' इति स्यवयवानां दुहितृषु बाहुल्यात् स्त्रीधनं दुहितृगामि । पितृधनं पुत्रगामि पित्रवर वानां पुत्रेषु बाहुल्यादिति । तत्र च गौतमेन विशेषो दर्शितः- 'स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्टितानां च' इति । अस्यार्थः-प्रत्ताऽप्रत्तासमवायेऽप्रत्तानामेव स्त्रीधनम् । प्रत्तासु चाप्रतिष्ठिताप्रतिष्ठितासमवायेऽप्रतिष्टितानामेवेति । अप्रतिष्ठिता निर्धनाः ॥ दुहिनभावे मातृधनमृणावशिष्टं को गृह्णीयादित्यत आह
ताम्य ऋतेन्वयः ॥ ११७॥ ताग्यो दुहितृभ्यो विना दुहितॄणामभावे अन्वयः पुत्रादिर्गृह्णीयात् । एतच्च -'विभजेरन्सुताः पित्रोरूर्ध्वम्' इत्यनेनैव सिद्धं स्पष्टार्थमुक्तम् ॥ ११७ ॥
१ शस्त्रदृष्टोस्ति ग. २ धनुश्चिह्नान्तर्गतो भाग ख. पुस्तकेऽधिकः. ३ स्वमतमुक्त्वा ख. घ. ४ विशेषेषु घ. ५ उत्कृष्टोंऽशो ज्येष्ठस्य पितुः. ६ परिभाण्डं ग. ७ विप्रतिषिद्धं घ. ८ कृतर्ण. ९ दुहितन्वय इत्यपरार्कः
For Private And Personal Use Only