________________
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
२०२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः 'ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिन' इति पक्षद्वयेऽप्यपदमाह
शक्तस्यानीहमानस्य किंचिद्दत्त्वा पृथक् क्रिया । स्वयमेव द्रव्यार्जनसमर्थस्य पितृद्रव्यमनीहमानस्यानिच्छतोपि यत्किंचिदसारमपि दत्त्वा पृथक् क्रिया विभागः कार्यः पित्रा । तत्पुत्रादीनां हायजिघृक्षा माभूदिति ॥
ज्येष्ठं वा श्रेष्ठभागेनेति न्यूनाधिको विभागो दर्शितः । तत्र शासोक्तोद्धारादिविषमविभागव्यतिरेकेणान्यथाविषमविभागनिषेधार्थमाह
न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ॥ ११६ ॥ न्यूनाधिकविभागेन विभक्तानां पुत्राणामसौ न्यूनाधिकविभागो यदि धर्म्यः शास्त्रोक्तो भवति तदासौ पितृकृतः कृत एव न निवर्तत इति मन्वादिभिः स्मृतः । अन्यथा तु पितृकृतोऽपि निवर्तत इत्यभिप्रायः। यथाह नारदः'व्याधितः कुपितश्चैव विषयासक्तमानसः । अन्यथाशास्त्रकारी च न विभागे पिता प्रभुः ॥' इति ॥ ११६ ॥ इदानी विभागस्य कालान्तरं करृन्तरं प्रकारनियमं चाह
विभजेरन्सुताः पित्रोरूर्व रिक्थमृणं समम् । पित्रोर्मातापिनोरूर्व प्रायणादिति कालो दर्शितः । सुता इति' कर्तारो दर्शिताः । सममिति प्रकारनियमः । सममेवेति रिक्थमृणं च विभजेरन् । ननु --'ऊर्ध्वं पितुश्च मातुश्च' (मनुः ९।१०४) इत्युपक्रम्य (मनुः ९।१०५)'ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥' इत्युक्त्वोक्तम् (मनुः ९।११२)-'ज्येष्ठस्य विंश उद्धारः सर्वव्याञ्च यद्वरम् । ततोऽध मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥' इति । सर्वस्माद्रव्यसमुदायाविंशतितमो भागः सर्वद्रव्येभ्यश्च यच्छ्रेष्ठं तज्येष्ठाय दातव्यम् । तदर्धे चत्वारिंशत्तमो भागो मध्यमं च द्रव्यं मध्यमाय दातव्यम् । तुरीयमशीतितमो भागो हीनं द्रव्यं च कनिष्ठाय दातव्यमिति मातापित्रोरूर्व विमजतामुद्धारविभागो मनुना दर्शितः । तथा (मनुः ९।११६।११७)-'उद्धारेऽनुद्धृते त्वेषामियं स्यादंशकल्पना । एकाधिकं हरेज्येष्ठः पुत्रोऽध्यधं ततोऽनुजः ॥ अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ॥' इति । ज्येष्ठस्य द्वौ भागौ तदनन्तरजातस्य साधं एको भागः ततोऽनुजानामेकैको विभाग इत्युद्धारव्यतिरेकेणापि विषमो विभागो दर्शितः पित्रोचं विभजताम् । जीवद्विभागे च स्वयमेव विषमो विभागो दर्शितो 'ज्येष्ठं वा श्रेष्ठभागेन' इति । अतः सर्वस्मिन्नपि काले विषमी विभागोऽस्तीति कथं सममेव विभजेरनिति नियम्यते ॥ अत्रोच्यते । सत्यम् । अयं
१ छतो यत्किचिदसारमपृथक् ख. ग. २ रूव॑मृणं घ. ३ प्रयाणात् ख-ग. ४ तदर्ध मध्यमस्य स्यात्तदर्धं तु कनीयस इति व्य-म-पाठः, ५ समुच्चयात् घ. ६ दर्शितो गनुना ग. ७ कथं विभजेरन्निति सममेव नियम्यते घ.
For Private And Personal Use Only