________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता ।
२०१ शात् पुत्रं पुत्रौ पुत्रान् । इच्छाया निरङ्कुशत्वादनियमप्राप्तौ नियमार्थमाहज्येष्ठं वा श्रेष्ठभागेनेति । ज्येष्ठं श्रेष्ठभागेन, मध्यम मध्यभागेन, कनिष्ठं कनिष्ठभागेन विभजेदित्यनुवर्तते श्रेष्ठादिविभागश्च मनुनोक्तः (९।११२)-ज्येष्ठस्य विंश उद्वारः सर्वद्रव्याच्च यद्वरम् । ततोऽर्धे मध्यमस्य स्यात्तुरीयं तु यवीयसः॥' इति । पाशब्दो वक्ष्यमाणपक्षापेक्षः । सर्वे वा स्युः समांशिन इति । सर्वे वा ज्येष्ठादयः समांशभाजः कर्तव्याः । अयं च विषमो विभागः स्वार्जितद्रव्यविषयः । पितृकमायाते तु समस्वाम्यस्य वक्ष्यमाणत्वानेच्छया विषमो विभागो युक्तः । विभागं चेत्पिता कुर्यादिति यदा पितुर्विभागेच्छा स तावदेकः कालः । अपरोऽपि कालो जीवत्यपि पितरि द्रव्यनिःस्पृहे निवृत्तरमणे मातरि च, निवृत्तरजस्कायां पितुरनिच्छायामपि पुत्रेच्छयैव विभागो भवति । यथोक्तं नारदेन-'अत ऊर्ध्वं पितुः पुत्रा विभजेयुर्धनं समम्' इति पित्रोरूर्व विभाग प्रतिपाद्य-'मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च । निवृत्ते चापि रमणे पितर्युपरतस्मृहे ॥' इति दर्शितः । अत्र पुत्रा धनं समं विभजेयुरित्यनुषज्यते । गौतमेनापि-'ऊर्ध्वं पितुः पुना रिक्थं विभजेरन्' इत्युक्त्वा निवृत्ते चापि रजसि' इति द्वितीयः कालो दर्शितः । जीवति चेच्छतीति तृतीयः कालः । तथा सरजस्कायामपि मातर्यनिच्छत्यपि पितर्यधर्मवर्तिनि दीर्घरोगग्रस्ते च पुत्रा. णामिच्छया भवति विभागः । यथाह शङ्खः-'अकामे पितरि रिक्थविभागो वृद्धे विपरीतचेतसि रोगिणि च' इति ॥ ११४ ॥
पितुरिच्छया विभागो द्विधा दर्शितः समो विषमश्चेति, तत्र समविभागे विशेषमाह
यदि कुर्यात्समानंशान्पत्यः कार्याः समांशिकाः ।
न दत्तं स्त्रीधनं यासां भा वा श्वशुरेण वा ॥ ११५ ॥ यदा स्वेच्छया पिता सर्वानेव सुतान्समविभागिनः करोति तदा पल्यश्व पुत्रसमांशभाजः कर्तव्याः यासां पत्नीनां भा श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते तु स्त्रीधने अर्धाशं वक्ष्यति-'दत्ते त्वधं प्रकल्पयेत्' इति ॥ यदा तु श्रेष्ठभागादिना ज्येष्ठादीन् विभजति तदा पत्यः श्रेष्ठादिभागान लभन्ते किंतूद्धृतोद्धारात्समुदायात्समानेवांशान्लभन्ते खोद्धारं च । यथाहापस्तम्ब:-'परीभाण्डं व गृहेऽलंकारो भार्यायाः' इति ॥ ११५ ॥
१ मध्यमभागेन घ. २ उद्धियत इत्युद्धारः । ज्येष्ठस्याविभक्तसाधारणधनादुद्धत्य विश. तितमो भागः सर्वद्रव्येभ्यश्च यच्छ्रेष्ठं तद्दातव्यमित्यादि । अयं चोद्धार विभागः कलौ नेष्टः कविज्येषु पाठात् व्य. म. ३ मातुरिति । रमणः कामः । उपरतस्पृहो विरक्तः । प्रत्तासु भगिनीपु चेति काकाक्षिवद्रजोरमणनिवृत्त्योर्विशेषणम् व्य. म. ४ इच्छाय'मुक्तं । तदिच्छा विनापि वेभागमाह बृहस्पतिः–'क्रमागते गृहक्षेत्रे पिता पुत्राः समाशिनः ॥ पैतृकेन वि. भागार्हाः सुताः पितुरनिच्छया ॥' अर्थापितामहाद्यर्जिते धने तदनिच्छयापि पुत्रा विभागार्हा इत्यर्थः न. म.
For Private And Personal Use Only