________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः दिवाकस्य । 'स्वमग्ने सर्वभूतानाम्' इति शोध्यस्यान्यमिमन्त्रणमन्त्रः। 'प्रदेशिनी परीक्षेयुः' इतिवचनात् प्रदेशिन्यैव मुद्रिकोद्धरणम् ॥ इति तप्तमाषविधिः।
धर्माधर्माख्यदिव्यविधिश्च पितामहेनोक्तः। तथाच-'अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् । हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ॥' इति । हन्तॄणामिति साहसाभियोगेषु, याचमानानामिति अर्थाभियोगेषु, प्रायश्चित्तार्थिनामिति पातकाभियोगेषु । -'राजतं कारयेद्धर्ममधर्म सीसकायसम्' इति प्रतिमाविधानं सीसकं वा आयसं वेति ॥ पक्षान्तरमाह-लिखेद्भूर्जे पटे वापि धर्माधौं सितासितौ । अन्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥ सितपुपस्तु धर्मः स्यादधर्मोऽसितपुष्पवृक् । एवंविधायोपलिख्य पिण्डयोस्तौ निधापयेत् ॥ गोमयेन मृदा वापि पिण्डौ कार्यों समंततः । मृद्भाण्डकेऽनुपहते स्थाप्यो चानुपलक्षितौ ॥ उपलिले शुचौ देशे देवब्राह्मणसंनिधौ । आवाहयेत्ततो देवॉल्लोकपालांश्च पूर्ववत् ॥ धर्मावाहनपूर्व तु प्रतिज्ञापत्रकं लिखेत् ॥' ततः-- 'यदि पापविमुक्तोऽहं धर्मस्त्वायातु मे करे । अशुद्धश्चेन्मम करे पाप आयातु धर्मतः ॥' इति ॥ अभिशस्तोऽभिमन्त्रयते-'अभियुक्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः । धर्मे गृहीते शुद्धः स्यादधर्मे तु स हीयते ॥ एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥' इति ॥ इति धर्माधर्मदिव्यविधिः॥ __अन्ये च शपथा द्रव्याल्पस्वमहत्त्वविषया जातिविशेषविषयाश्च मन्वादिमिरुक्ताः । ते यथा-'निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् । त्रिकादवाक्तु पुण्यं स्यात्कोशपानमतः परम् ॥' (मनुः ८११३) 'सल्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥' इत्यादयः। अन च शुद्धि विभावना मनुनोक्ता (८1११५)-'न चौर्तिमृच्छांते क्षिप्रं स ज्ञेयः शपथे शुचिः' इति । आर्तिरपि 'यस्य नो राजदैविकं व्यसनं जायते घोरम्' इत्युक्कैव । कालनियमश्च एकरात्रमारभ्य त्रिरात्रपर्यन्तं त्रिरात्रमारभ्य पञ्चरात्रपर्यन्तम् । एकरात्रप्रभृतित्वं कार्यलाघवगौरवपर्यालोचनया द्रष्टव्यम् ॥ एवं दिव्यैर्जयपराजयावधारणे दण्डविशेषोऽपि दर्शितः कात्यायने-'शतार्ध दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत्' इति । तं दण्डमाह-'विष तोये हुताशे च तुलाकोशे च तण्डुले । तप्तमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् ॥ सहस्रं षट्शतं चैव तथा पञ्चशतानि च । चतुस्त्रियेकमेवं च हीनं हीनेषु कल्पयेत् ॥' इति ॥ निह्नवे भावितो दद्यादित्युक्तदण्डेनायं दिव्यनिबन्धनो दण्डः समुच्चीयते ॥ इति दिव्यप्रकरणम् ॥
१ पापमायातु ख. २ अस्य पूर्वार्ध-'यमिद्धो न दहत्यग्निरापो नोन्मजयन्ति च' इति मनुस्मृतावालोचनीयम्
For Private And Personal Use Only