SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ याज्ञवल्क्यस्मृतिः। व्यवहाराध्यायः मुदके निक्षिप्य पुनः संताप्योदके निक्षिप्य तृतीये तापे संताप्य संदशेन गृहीत्वा पुरत आनीते सत्यपुरस्कृतं सत्यशब्दयुकं स्वममे सर्वभूताना' मित्यादिमनं कर्ता ब्रूयादिति ॥ प्राशिवाकस्तु मण्डलभूभागाइक्षिणप्रदेशे लौकिकमग्निमुपसमाधाय अग्नये पावकाय स्वाहेत्याज्येनाष्टोत्तरशतवारं जुहुयात्। 'शान्त्यर्थ बहुयादमौ घृतमष्टोत्तरं शतम्' इति स्मरणात् । हुत्वा च तस्मिन्नमवायःपिण्डं प्रक्षिप्य तस्मिंस्ताप्यमाने धर्मावाहनादिहवनान्तं पूर्वोक्त विधि विधाय तृतीये तापे वर्तमाने अयापिण्डमप्रिमेभिर्मन्त्रैरभिमत्रयेत्-स्वममे वेदाश्त्वारस्त्वं यज्ञेषु हूयसे । त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥ जठरस्थो हि भूतानां ततो वेस्सि शुभाशुभम् । पापं पुनासि वै यस्मात्तसात्पावक उच्यते ॥ पापेषु दर्शयात्मानमर्चिष्मान्भव पावक । अथवा शुद्धभावेषु शीतो भव हुता. बनावमझे सर्वदेवानामन्तश्वरसि साक्षिवत् । स्वमेव देव जानीषे न विदुयोनि मानवाः ॥ व्यवहारामिशस्खोऽयं मानुषः शुद्धिमिछति । तदेनं संभाला दमाद्धर्मतस्त्रातुमर्हसि ॥ इति ॥ १० ॥ • तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् । ___ अग्निवर्ण न्यसेत्पिण्डं हस्तयोरुभयोरपि ॥ १०५॥ अपिच । तस्य कर्तुरित्युक्तवतः 'त्वमग्ने सर्वभूतानामि' त्यादिभिर्मन्त्रैरभिमन्त्रणं कृतवतो लौहं लोहविकारं पिण्डं पञ्चाशत्पलिकं पञ्चाशत्पलसंमितं सममनर. हितम् । सर्वतश्च समं वृत्तं वक्ष्णं तथाष्टाहुलायामम्-'भस्रहीनं समं कृत्वा भष्टाङ्गुलमयोमयम् । पिण्डं तु तापयेदनौ पञ्चाशत्पलिकं समम् ॥' इति पितामहस्मरणात् । अग्निवर्णमग्निसदृशमुभयोईस्तयोरश्वत्थपत्रदधिदूर्वाधन्तरितयो. यंसेनिक्षिपेत्याशिवाकः ॥ १०५॥ ततः किं कुर्यादित्यत आह स तमादाय सप्तैव मण्डलानि शनैव्रजेत् । स पुरुषस्तं तप्तलोहपिण्डं अञ्जलिना गृहीत्वा सप्त मण्डलानि शनैर्बजेत् । एवकारेण मण्डलेष्वेव पदन्यासं मण्डलानतिक्रमणं च दर्शयति । यथाह पितामहः-'न मण्डलमतिकामेनाप्याक् स्थापयेत्पदम्' इति ॥ सप्तैव मण्डलानि शनैर्बजेदित्युकं तत्रैकैकं मण्डलं किंप्रमाणकं मण्डलयोरन्तरं च कियत्प्रमाणकमित्यत आह षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ॥ १०६॥ षोडश अङ्गुलानि यस्य तत्षोडशाङ्गुलकम् । षोडशाङ्गुलप्रमाणं मण्डलं बोद्धव्यम् । मण्डलयोरन्तरं मध्यं च तावदेव षोडशाङ्गुलकमेव । -सप्त मण्डलानि ब्रजेदिति वदता प्रथममवस्थानमण्डलमेकमुक्तं । अतश्चाष्टमण्डलानि षोडशाङ्गुलकानि मण्डलानामन्तराणि मध्यानीत्यर्थः । मण्डलान्तराणि तु सप्त तावत्प्रमागानि ॥ एतदेव नारदेन परिसंख्यायोक्तम्-'द्वात्रिंशदङ्गुलं प्राहुर्मण्डला१ परिसंख्ययोक्तम् ख. ग. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy