________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७]
मिताक्षरासहिता।
१८१
दिवसस्य तु पूर्वाह्ने कोशशुद्धिर्विधीयते । रात्रौ तु पश्चिमे यामे विषं देयं सुशीतलम् ॥' इति पितामहोक्तो विशेषो द्रष्टव्यः ॥ अनुक्तकोलविशेषाणां तण्डुलतप्तमाषप्रभृतीनां पूर्वाह्न एव प्रदानम् । -'पूर्वाह्ने सर्वदिव्यानां प्रदानं परिकीर्तितम्' इति सामान्येन नारदस्मरणात् । अहनि त्रिधा विभक्ते पूर्वो भागः पूर्वाह्नो मध्यमो मध्याह्नः उत्तरोऽपराह्नः । तथापरोऽपि कालविशेषो विधिप्रतिषेधमुखेन दर्शितः। विधिमुखस्तावत्-'अग्नेः शिशिरहेमन्तौ वर्षाश्चैव प्रकीतिताः । शरीष्मेषु सलिलं हेमन्ते शिशिरे विषम् ॥ चैत्रो मार्गशिरश्चैव वैशाखश्च तथैव च । एते साधारणा मासा दिव्यानामविरोधिनः ॥ कोशस्तु सर्वदा देयस्तुला स्यात्सार्वकालिकी ॥' इति । कोशग्रहणं सर्वशपथानामुपलक्षणम् । तण्डुलानां पुनर्विशेषानमिधानात्सार्वकालिकत्वम् । प्रतिषेधमुखोऽपि-'न . शीते तोयशुद्धिः स्थानोष्णकालेऽग्निशोधनम् । न प्रावृषि विषं दद्यात्प्रवाते न सुला तथा.॥ नापराह्ने न सन्ध्यायां न मध्याह्ने कदाचन ॥' इति । न शीते तोयशुद्धिः स्यादिस्यत्र शीतशब्देन हेमन्तशिशिरवर्षाणां ग्रहणम् । 'नोष्णकालेऽग्निशोधन'मित्यत्रोष्णकालशब्देन ग्रीष्मशरदोः विधानलब्धस्यापि पुनर्निषेध आदरार्थः । प्रयोजनं तु वक्ष्यते ॥ ९७ ॥ अधिकारिव्यवस्थामाह
तुलास्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् ।
अग्निजेलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥९८॥ स्त्री स्त्रीमात्रं जातिवयोवस्थाविशेषानादरेण । बाल आषोडशाद्वर्षाजातिविशेषानादरेण । वृद्धोऽशीतिकावरः । अन्धो नेत्रविकलः । पङ्गुः पादविकलः । ब्राह्मणो जातिमात्रम् । रोगी व्याधितः । एतेषां शोधनार्थं तुलैवेति नियम्यते । अग्निः फालस्तप्तमाषश्च क्षत्रियस्य । जलमेव वैश्यस्य । वाशब्दोऽवधारणे। विषस्य यवा उक्तपरिमाणाः सप्तैव शूद्रस्य शोधनार्थं भवन्ति । ब्राह्मणस्य तुलाविधानात् 'शूद्रस्य यवाः सप्त विषस्य वा' इति विषविधानादग्निर्जलं वेति क्षत्रियवैश्यविषयमुक्तम् । एतदेव स्पष्टीकृतं पितामहेन-'ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ॥' इति । यत्तु ख्यादीनां दिव्याभावस्मरणम्-'सव्रतानां भृशार्तानां व्याधितानां तपस्विनाम्। स्त्रीणां च न भवेदिव्यं यदि धर्मस्त्वपेक्षितः ॥' इति, तत् 'रुच्या वान्यतरः कुर्यात्' इति विकल्पनिवृत्त्यर्थम् । एतदुक्तं भवति–'अवष्टम्भाभियोगेषु स्यादीनामभियोक्तृत्वेऽभियोज्यानामेव दिव्यं, एतेषाममियोज्यत्वेऽप्यभियोक्तणामेव दिव्यम् । परस्पराभियोगे तु विकल्प एव । तत्रापि तुलैवेति कात्यायनवचनेन नियम्यते । तथा महापातकादिशङ्काभियोगे स्यादीनां तुलैवेति एतच्च वचनं सर्वदिव्यसाधारणेषु मार्गशिरश्चैत्रवैशाखेषु स्यादीनां सर्वदिव्यसम
१ कोशसिद्धिः ख. २ अनुक्तवेला ग. घ. ३ प्रथमो भागः. घ. ४ उत्तमो घ. ५ तोयसिद्धिः स्यात् ख.
For Private And Personal Use Only