________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः अभियोगेषु सर्वेषु कोशपानमथापि वा । इत्येते शपथाः प्रोक्ता मनुना स्वल्पकारणे ॥' इति नारदस्मरणात् ॥ यद्यपि मानुषप्रमाणानिर्णेयस्य निर्णायकं यत्तदिव्यमिति लोकप्रसिद्ध्या शपथानामपि दिव्यत्वं तथापि कालान्तरनिर्णयनि
मित्तत्वेन समनन्तरनिर्णयनिमित्तेभ्यो घटादिभ्यो दिव्येभ्यो भेदत्वव्यपदेशो . ब्राह्मणपरिव्राजकवत् । कोशस्य तु शपथत्वेऽपि धटादिषु पाठो महाभियोगवि
षयत्वेनावष्टम्भाभियोगविषयत्वेन च धटादिसाम्यानतु समनन्तरनिर्णयनिमित्तत्वेन । तण्डुलानां तप्तमाषस्य च समनन्तरनिर्णयनिमित्तत्वेऽप्यल्पविषयत्वेन शङ्काविषयत्वेन च घटादिवलक्षण्यात्तेष्वपाठ इति संतोष्टव्यम् । एतानि च दिव्यानि शपथाश्च यथासंभवमृणादिषु विवादेषु प्रयोक्तव्यानि । यत्तु पितामहवचनम्-'स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत्' इति, तदपि लिखितसामन्तादिसद्भावे दिव्यानि परिवर्जयेदिति व्याख्येयम् । ननु विवादान्तरेष्वपि प्रमाणान्तरसंभवे दिव्यानामनवकाश एव । सत्यम् । ऋणादिषु विवादेषु उक्तलक्षणसाक्ष्युपन्यासेऽर्थिना कृतेऽपि प्रत्यर्थी यदि दण्डाभ्युपगमावष्टम्भेन दिव्यमवलम्बते तदा दिव्यमपि भवति । साक्षिणामाशयदोषसंभवाद्दिव्यस्य च निदर्दोषत्वेन वस्तुतत्त्वविषयत्वात्तल्लक्षणत्वाच्च धर्मस्य । यथाह नारदः-तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि । दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥' इति । स्थावरेषु च विवादेषु प्रत्यर्थिना दण्डावष्टम्भेन दिव्यावलम्बने कृतेऽपि सामन्तादिदृष्टप्रमाणसद्भावे न दिव्यं ग्राह्यमिति विकल्पनिराकरणाथै 'स्थावरेषु विवादेषु' इत्यादिपितामहवचनं नात्यन्तिकदिव्यनिराकरणार्थम् । लिखितसामन्तायभावे स्थावरविवादेष्वनिर्णयप्रसङ्गात् ॥ ९६ ॥ दिव्ये साधारणविधिः
सचैल स्नातमाहूय सूर्योदय उपोषितम् ।
कारयेत्सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ ९७ ॥ किंच । पूर्वेधुरुपोषितमुदिते सूर्ये सचैलं स्नातं दिव्यप्राहिणमाहूय नृपस्य सभ्यानां ब्राह्मणानां च संनिधौ सर्वाणि दिव्यानि कारयेत्प्राविवाक:-'विरात्रोपोषिताय स्युरेकरात्रोषिताय वा। नित्यं दिव्यानि देयानि शुचये चावाससे ॥' इत्युपवासविकल्पः पितामहेनोक्तो बलवदबलवन्महाकार्याल्पकार्यविषयत्वेन व्यवस्थितो द्रष्टव्यः । उपवासनियमश्च कारयितुःप्राविवाकस्यापि'दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् । अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया ॥' इति पितामहवचनात् ॥ अत्र यद्यपि सूर्योदय इत्यविशेषेणोक्तं तथापि शिष्टसमाचारागानुवासरे दिव्यानि देयानि । तत्रापि–'पूर्वाह्नेऽग्निपरीक्षा स्यात्पूर्वाह्ने च धटो भवेत् । मध्याह्ने तु जलं देयं धर्मतत्त्वमभीप्सता ॥
१ साध्येषु ग. सर्वेषु कोशयान घ. २ नारदादि ख-ग. ३ नन्तरनिमित्तनिर्णयेभ्यो घ. ४ न्तरसद्भावे घ. ५ उक्तलक्षणे घ. ६ माशयेद्दोष घ.
For Private And Personal Use Only