________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७ ]
मिताक्षरासहिता ।
१७९
एतानि महाभियोगेष्वेव नान्यत्रेति नियम्यते न पुनरिमान्येव दिव्यानीति । महत्वावधिं च वक्ष्यति । नन्वल्पाभियोगेऽपि कोशे इष्यते-कोशमल्पेऽपि दापयेत्' इति स्मरणात् । सत्यम् । कोशस्य तुलादिषु पाठो न महाभियोगेष्वेवेति नियमार्थः, किंतु सावष्टम्भाभियोगेऽपि प्रात्यर्थः । अन्यथा शङ्काभियोगे एव स्यात्-'अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् । तण्डुलाश्चैव कोशश्च शङ्कास्वेव न संशयः ॥' इति स्मरणात् ॥ महाभियोगेषु शकितेषु सावष्टम्भेषु चाविशेषेण प्राप्तावपवादमाह
शीर्षकस्थेभियोक्तरि ॥९५ ॥ एतानि तुलादीन्यभियोक्तरि शीर्षकस्थेऽभियुक्तस्य भवन्ति । शीर्षकं शिरोव्यवहारस्य चतुर्थः पादो जयपराजयलक्षणस्तेन च दण्डो लक्ष्यते तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्कंदण्डभागित्यर्थः ॥ ९५॥
'ततोऽर्थी लेखयेत्सथः प्रतिज्ञातार्थसाधन मिति भावप्रतिज्ञावादिन एव क्रियेति व्यवस्था दर्शिता तदपवादार्थमाह
रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः। रुच्याभियोऋभियुक्तयोः परस्परसंप्रतिपत्त्यान्यतरोऽभियुक्तोऽभियोक्ता वा दिव्यं कुर्यात् । इतरोऽमियुक्तोऽभियोक्ता वा शिरः शारीरमर्थदण्डं वा वर्तयेदङ्गीकुयात् । अयमभिसन्धिः -न मानुषप्रमाणवद्दिव्यं प्रमाणं भावैकगोचरं अपितु भावाभावावविशेषेण गोचरयति । अतश्च मिथ्योत्तरे प्रत्यवस्कन्दने प्राङ्न्याये वार्थिप्रत्यर्थिनोरन्यतरस्येच्छया दिव्यं भवतीति ॥ __ अल्पाभियोगे महामियोगे शङ्कासावष्टम्भयोरप्यविशेषेण कोशो भवतीत्युक्तं, तुलादीनि विषान्तानि तु महाभियोगेष्वेव सावष्टम्भेष्वेवेति च नियमो दर्शितः। तत्रावष्टम्भाभियोगेष्वेवेत्यस्यापवादमाह
विनापि शीर्षकात्कुर्यान्नृपद्रोहेऽथ पातके ॥ ९६ ॥ राजद्रोहाभिशङ्कायां ब्रह्महत्यादिपातकाभिशङ्कायां च शिरःस्थायिना विनापि तुलादीनि कुर्यात् महाचौर्याभिशङ्कायां च । यथाह-'राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः । आत्मशुद्धिपराणां च दिव्यं देयं शिरो चिना ॥' इति । तण्डुलाः पुनरल्पचौर्यशङ्कायामेव ।-चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः' इति पितामहवचनात् । तप्तमाषस्तु महाचौर्याभिशङ्कायामेव ।'चौर्यशङ्काभियुक्तानां तप्तमाषो विधीयते' इति स्मरणात् । अन्ये पुनः शपथा अल्पार्थविषयाः।-'सत्यं वाहनशस्त्राणि गोबीजकनकानि च । देवतापितृपादांश्च दत्तानि सुकृतानि च ॥ स्पृशेच्छिरांसि पुत्राणां दाराणां सुहृदां तथा ।
१ कोशोऽऽस्त्येव ग.२ क्रियाव्यवस्था ख.३भावाभावविशेषेणेतिसर्वत्र पाठः. ४ भवतीति युक्तं घ.
For Private And Personal Use Only