________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लेख्यप्रकरणम् ६ ]
मिताक्षरासहिता ।
१७७
द्यमानस्य पत्रस्य पूर्व ये द्रष्टारः साक्षिणस्तैर्दर्शनं व्यवहारपरिसमापनं कार्यम् । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्यः – 'अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत्' इति स्मरणात् । एतच्च जानपदं व्यवस्थापत्रम् | राजhtraप व्यवस्थापनमीदृशमेव भवति । इयांस्तु विशेषः 'राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥' इति । तथान्यदपि राजकीयं जयपत्रकं वृद्धवसिष्ठेनोक्तम्- 'यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारणकं चैव जयपत्रकमिष्यते ॥ प्राड़िवाकादिहस्ता मुद्रितं राजमुद्रा | सिद्धेऽर्थे वादिने दद्याज्जयिने जयपत्रकम् ॥ इति । तथा सभासदोऽपि मेतं मेऽमुकपुत्रस्येति स्वहस्तं दद्युः । - ' सभासदश्व ये तत्र स्मृतिशास्त्रविदः स्थिताः । यथालेख्यविधौ तद्वत्स्वहस्तं दद्युरेव ते ॥ इति स्मरणात् । सभासदां च परस्परानुमतिव्यतिरेकेण न व्यवहारो निःशल्यो भवति । यथाह नारदः - 'यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते । स निःशल्यो विवादः स्यात्सशल्यस्त्वन्यथा भवेत् ॥' इति । एतच्चतुष्पाद्व्यवहार एव । - ' साधयेत्साध्यमर्थे यच्चतुष्पादान्वितं च यत् । राजमुद्रान्वितं चैव जयपत्रकमिष्यते ॥' इति स्मरणात् । यत्र तु हीनता । यथा - 'अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । आहूतप्रपैलायी च हीनः पञ्चविधः स्मृतः ॥' इति । तत्र न जयपत्रकमस्ति अपितु हीनपत्रकमेव । तच्च कालान्तरे दण्डप्राध्यर्थं जयपत्रं तु प्राङ्न्यायविधिसिद्ध्यर्थमिति विशेषः ॥ ९१ ॥
लेख्यसंदेहे निर्णयनिमित्तान्याह --
संदिग्धलेख्यशुद्धिः स्यात्स्वहस्त लिखितादिभिः । युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः ॥ ९२ ॥
शुद्धमशुद्धं वेति संदिग्धस्य लेख्यस्य शुद्धिः स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितं यल्लेख्यान्तरं तेन शुद्धिः । यदि सदृशान्यक्षराणि भवन्ति तदा शुद्धिः स्यादित्यर्थः । आदिशब्दात्साक्षि लेखक स्वहस्तलिखितान्तरसंवादाच्छुद्धिरिति । युक्तया प्राप्तिर्युक्तिप्राप्तिः । देशकालपुरुषाणां द्रव्येण सह संबन्धः प्राप्तिः । अस्मिन्देशेऽस्मिन्कालेऽस्य पुरुषस्येदं द्रव्यं घटत इति युक्तिप्राप्तिः । क्रिया तत्साक्ष्युपन्यासः । चिह्नमसाधरणं श्रीकारादि । संबन्धोऽर्थिप्रत्यर्थिनोः पूर्वमपि परस्परविश्वासेन दानग्रहणादिसंबन्धः । आगमोऽस्यैतावतोऽर्थस्य संभावितः प्रायुपायः । एते एव हेतवः । एभिर्हेतुभिः संदिग्धलेख्यस्य शुद्धिः स्यादित्यन्वयः । यदा तु लेख्यसंदेहे निर्णयो न जायते तदा साक्षिभिर्निर्णयः कार्यः । यथाह कात्यायनः - 'दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत्' इति । साक्षिसंभव विषयमिदं वचनम् । साक्ष्यसंभवविषयं तु हारीतवचनम् - ' न मयैतत्कृतं पत्रं कूटमेतेन कारितम् । अधरीकृत्य तत्पन्नमथो दिव्येन निर्णयः ॥ ' इति ॥ ९२ ॥
१ व्यवहारे ख. २ दत्तं मे ख. ३ मुद्राङ्कितं ग. ४ व्यपलापी ग. ५ संबन्धप्राप्तिः ख. घ.
For Private And Personal Use Only