________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः स्त्रिभिरेव देयं न चतुर्थादिभिरिति नियम्यते । ननु पुत्रपौत्रैणं देयमित्यविशेषेण ऋणमात्रं त्रिभिरेव देयमिति नियतमेव । बाढम् । अस्यैवोत्सर्गस्य पत्रारूढणविषये स्मृत्यन्तरप्रभवामपवादशङ्कामपनेतुमिदं वचनमारब्धम् । तथाहि-पत्रलक्षणमभिधाय कात्यायनेनाभिहितम् - 'एवं कालमतिक्रान्तं पितॄणां दाप्यते ऋणम्' इति । इत्थं पत्रारूढमृणमतिकान्तकालमपि पितॄणां संबन्धि दाप्यते । अन्न पितॄणामिति बहुवचन निर्देशात्कालमतिक्रान्तमिति वचनाच्चतुर्थादिर्दाप्य इति प्रतीयते । तथा हारीतेनापि-'लेख्यं यस्य भवेद्धस्ते लाभं तस्य विनिर्दिशेत्' इति । अत्रापि यस्य हस्ते लेख्य (पत्र) मस्ति तस्यर्णलाभे इति सामान्येन चतुर्थादिभ्योऽप्यणलाभोऽस्तीति प्रतीयते । अतश्चैतदाशङ्कानिवृत्त्यर्थमेतद्वचनमित्युक्तम् । वचनद्वयं च योगीश्वरवचनानुसारेण योजनीयम् ॥ अस्थापवादमाह
आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥ ९० ॥ सबन्धकेऽपि पैत्रारूढं ऋणं त्रिभिरेव देयमिति नियमादृणापाकरणानधिकारेणाध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते । यावञ्चतुर्थेन पञ्चमेन वा ऋणं न दीयते तावदेवाधिर्भुज्यत इति वदता सबन्धकर्णापाकरणे चतुर्थादेरप्यधिकारो दर्शितः । नन्वेतदप्युक्तमेव 'फलभोग्यो न नश्यतीति । सत्यम् । तदप्येतस्मिअसत्यवादवचने पुरुषत्रयविषयमेव स्यादिति सर्वमनवद्यम् ॥ ९० ॥ प्रासङ्गिक परिसमाप्य प्रकृतमेवानुसरति
देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
भिन्ने दग्धेऽथवा छिन्ने लेख्यमन्यत्तु कारयेत् ॥ ९१ ॥ व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्यादिति विधीयते । व्यवहाराक्षमत्वं चात्यन्तव्यवहितदेशान्तरस्थे पत्रे दुर्लेख्ये दुष्टानि संदिह्यमानानि अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि वा यसिंस्तत् दुर्लेख्यं तस्मिन्दुर्लेख्ये, नष्टे कालवशेन, उन्मृष्टे मषीदौर्बल्यादिना मृदितलिप्यक्षरे, हृते तस्करादिभिः, भिन्ने विदलिते, दग्धे प्रज्वलिते, छिन्ने द्विधाभूते सति पत्रं द्विर्भवति । एतच्चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्याम् । विमत्यां तु व्यवहारप्राप्ती देशान्तरस्थपत्रानयनीयाध्वापेक्षया कालो दातव्यः । दुर्देशावस्थिते नष्टे वा पत्रे साक्षिमिरेव व्यवहारनिर्णयः कार्यः । यथाह नारदः–'लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लिखिते हृते । सतस्तत्कालकरणमसतो ष्ट्रदर्शनम् ॥' इति । सतो विद्यमानस्य पत्रस्य देशान्तरस्थस्यानयनाय कालकरणं कालावधितव्यः । असतां पुनरवि
१ वचनाच्च चतुर्थादिः ख. २ पत्रारूढे ऋणे ख. ग. ३ कारेणापहरणे ख. ४ तस्करादिना ग. घ. ५ द्वितीयपत्रं भवति ग. ६ नाय दुर्गाध्वापेक्षया ख. ७ दुर्गदेशावस्थिते ख ८ दृष्टदर्शनं घ.
For Private And Personal Use Only