________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
१७४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
K AR
अथ लेख्यप्रकरणम् ६ भुक्तिसाक्षिणौ निरूपितौ । सांप्रतं लेख्यं निरूप्यते । तत्र लेख्यं द्विविधं शासनं जानपदं चेति । शासनं निरूपितम् । जानपदमभिधीयते । तच्च द्विविधम् स्वहस्तकृतमंन्यकृतं चेति । तत्र स्वहस्तकृतमसाक्षिकं अन्यकृतं ससाक्षिकम् । अनयोश्च देशाचारानुसारेण प्रामाण्यम् । यथाह नारदः-'लेख्यं तु द्विविधं ज्ञेयं स्वहस्ताऽन्यकृतं तथा । असाक्षिमत्साक्षिमञ्च सिद्धिर्देशस्थितेस्तयोः ॥ इति तत्रान्यकृतमाह
यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् ।
लेख्यं तु साक्षिमत्कार्य तस्मिन्धनिकपूर्वकम् ॥ ८४ ॥ धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद्देयमियती च प्रतिमासं वृद्धिरिति निष्णातो व्यवस्थितः तस्मिन्नर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थ लेख्यं साक्षिमदुक्तलक्षणसाक्षियुक्तं धनिकपूर्वकं धनिकः पूर्वो यस्मिंस्तद्धनिकपूर्वकम् । धनिकनामलेखनपूर्वकमितियावत् । कार्य कर्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्तव्याः-'कर्ता तु यत्कृतं कार्य सिख्यथै तस्य साक्षिणः । प्रवर्तन्ते विवादेषु स्वकृतं वाथ लेख्यकम् ॥' इति स्मरणात् ॥ ८४ ॥
समामासतदर्धाहर्नामजातिखगोत्रकैः ।
सब्रह्मचारिकात्मीयपितृनामादिचिनितम् ॥ ८५ ॥ अपिच । समा संवत्सरः । मासश्चैत्रादिः। तदधैं पक्षः शुक्लः कृष्णो वा । अहस्तिथिः प्रतिपदादिः । नाम धनिकर्णिकयोः । जातिर्ब्राह्मणत्वादिः । स्वगोत्रं वासिष्ठादिगोत्रम् । एतैः समादिभिश्चिह्नितम् । तथा सब्रह्मचारिकं बढ़चादिशाखाप्रयुक्तं गुणनाम बढ़चः कठ इति । आत्मीयपितृनाम धनिकर्णिकपितृनाम । आदिग्रहणाद्व्यजातिसंख्याचारादेर्ग्रहणम् । एतैश्च चिह्नित लेख्यं कार्यमिति गतेन संबन्धः ॥ ५॥
समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम् ॥ ८६ ॥ किंच। धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यवस्थितस्तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णो नामात्मीयं स्वहस्तेनास्मिल्लेख्ये यदुपरि लेखितं तन्ममामुकपुत्रस्य मतमभिप्रेतमिति निवेशयेत्पत्रे विलिखेत् ॥ ८६ ॥
PANCHERaranasamanarmahilaomimansenilenewalremUMEROLAWresumptsuureactitolearchnasaitanianimalAasamanartTAHANIHARRANASANNARIMANSHI
१ मन्यहस्तकृतं ग. २ धनिकाधमर्णिकयोः ख. ३ संख्यावारादेः ख. ग.
For Private And Personal Use Only