________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साक्षिप्रकरणम् ५] मिताक्षरासहिता।
१७३ इति । न चान्येनोक्ताः साक्षिणोऽन्येन रहस्यनुसतव्याः । यथाह नारदः'न परेण समुद्दिष्टमुपेयात्साक्षिणं रहः । भेदयेनैव चान्येन 'हीयेतैवं समाच. रन् ॥' इति ॥ ८२ ॥ साक्षिणामवचनमसत्यवचनं च सर्वत्र प्रतिषिद्धं तदपवादार्थमाह
वर्णिनां हि वधो यत्र तंत्र साक्ष्यनृतं वदेत् । .. यत्र वर्णिनां शूद्रविदक्षत्रविप्राणां सत्यवचनेन वधः संभाव्यते तत्र साक्ष्यनृतं वदेत् सत्यं न वदेत् । अनेन च सत्यवचनप्रतिषेधेन साक्षिणः पूर्वप्रतिषिखुमसत्यवचनमवचनं चाभ्यनुज्ञायते । यत्र शङ्काभियोगादौ सत्यवचने वर्णिनो वधोऽनृतवचने न कस्यापि वधस्तत्रानृतवचनमभ्यनुज्ञायते । यत्र तु सत्यवचनेऽर्थिप्रत्यर्थिनोरन्यतरस्य वधोऽसत्यवचने चान्यतरस्य वधस्तत्र तूष्णीभावाभ्यनुज्ञा राजा यद्यनुमन्यते । अथ राजा कथमप्यकथने न मुञ्चति तदा भेदादसाक्षित्वं कर्तव्यम् । तस्याप्यसंभवे सत्यमेव वदितव्यम् । असत्यवचने वर्णिवधदोषोऽसत्यवचनदोषश्च । सत्यवचने तु वर्णिवधदोष एव । तत्र च यथाशास्त्रं प्रायश्चित्तं कर्तव्यम् ॥ तीसत्यवचने तूष्णींभावे च शास्त्राभ्यनुज्ञानात्प्रत्यवायाभाव इत्यत आह
तत्पावनाय निवोप्यश्वरुः सारवतो द्विजैः ॥ ८३ ॥ तत्पावनाय अनृतवचनावचन निमित्तप्रत्यवायपरिहाराय सारस्वतश्वरुर्द्विजैरेकैकशो निर्वाप्यः कर्तव्यः । सरस्वती देवता अस्येति सारस्वतः। अनवनावितान्तरूष्मपक्कीदने चरशन्दः प्रसिद्धः । इहायमभिसन्धिः-साक्षिणामनृतवचनमवचनं च यनिषिद्धं तदिहाभ्यनुज्ञातम् । यत्तु-'नानृतं वदेत् । अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी' इति सामान्येनानृतवचनमवचनं च प्रतिषिद्धं तदतिक्रमनिमित्तमिदं प्रायश्चित्तम् । नच मन्तव्यं साक्षिणामनृतवचनावचनाभ्यनुज्ञानेऽपि साधारणानृतवचनावचनप्रतिषेधातिक्रमनिमित्तप्रत्यवायस्य तादवस्थ्यादभ्यनुज्ञावचनमनर्थकमिति । यतः साक्ष्यनृतवचनावचनयोभूयान्प्रत्यवायः साधारणानृतवचनावचनयोरल्पीयानित्यर्थवदभ्यनुज्ञावचनम् । यद्यपि भूयसः प्रत्यवायस्य निवृत्त्या आनुपङ्गिकस्याल्पीयसः प्रत्यवायस्य निवृत्तिरन्यत्र तथापीहाभ्यनुज्ञावचनात्प्रायश्चित्तविधानाच्च भूयसो निवृत्त्याल्पीयानप्यानुषङ्गिकोऽपि प्रत्यवायो न निवर्तत इति गम्यते । एतदेवान्यत्र प्रश्नेषु वर्णिवधाशङ्कायां पान्थादीनामनृतवचनावचनाभ्यनुज्ञानं वेदितव्यम् । नच तत्र प्रायश्चित्तमस्ति प्रतिषेधान्तराभावात् । निमित्तान्तरेण कालान्तरेऽर्थतत्त्वावगमेऽपि साक्षिणामन्येषां च दण्डाभावोऽस्मादेव वचनादवगम्यत इति ॥ ८३ ॥
इति साक्षिप्रकरणम् ।
१ हीयेच्चैवं घ. २ साक्ष्यं तत्रानृतं. ३ वदेत् घ. साक्ष्यमनृतम् घ. ४ वचनेन. ५ भ्यनुज्ञया ख. ६ निषिद्धं ख. ७ स्थ्यादवचनाभ्यनुशा ख. ८ साक्षिणामसत्यवचनावचनप्रतिषेधातिक्रमथोः ख.
For Private And Personal Use Only