________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
सयेत् । यद्वा विवासयेत् वाससो विगतो विवासाः । विवाससं करोतीति णिचि कृते ' णाविष्ठवत्प्रातिपदिकस्य' इति टिलोपे रूपम् । नग्नीकुर्यादित्यर्थः । अथवा वसत्यस्मिन्निति वासो गृहम् । विवासयेत् भग्नगृहं कुर्यादित्यर्थः । ब्राह्मणस्यापि लोभादिकारणविशेषापरिज्ञानेऽनभ्यासे च तत्रतत्रोक्तो दण्ड एव । अभ्यासे स्वर्थदण्डो विवासनं च । तत्रापि जातिद्रव्यानुबन्धाद्यपेक्षया विवासनं नमीकरणं गृहभङ्गो देशान्निर्वासनं चेति व्यवस्था द्रष्टव्या । लोभादिकारणविशेषापरिज्ञानेऽनभ्यासे चाल्पविषये कौटसाक्ष्ये ब्राह्मणस्यापि क्षत्रिया दिवदर्थदण्ड एव । महाविषये तु देशान्निर्वासनमेव । अत्राप्यभ्यासे सर्वेषामेव मनूक्तं द्रष्टव्यम् । नच ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यम् । अर्थदण्डाभावे शारीरदण्डे च निषिद्धे स्वल्पेऽप्यपराधे नझीकरणगृहभङ्गाङ्ककरणविप्रवासनं दण्डाभावो वा प्रसज्येत - 'चतुर्णामपि वर्णानां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्य प्रकल्पयेत् ॥' इति स्मरणाश्च । तथा ( मनुः ८|३७८) - 'सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्रजन्' इति स्मरणात् । यत्तु शङ्खवचनम् —'त्रयाणां वर्णानां धनापहारवधबन्धक्रिया विवासनाङ्ककरणं ब्राह्मणस्य' इति, तत्र धनापहारः सर्वस्वापहारो विवक्षितो वधसाहचर्यात् - 'शारीरस्ववरोधादिर्जीवितान्तः प्रकीर्तितः । काकिण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव 'च ॥' इति वधसर्वस्वहरणयोः सहपाठात् । यदप्युक्तम्- 'राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम्' इति तत्प्रथमकृत साहसविषयं न सर्वविषयम् । शारीरस्तु ब्राह्मणस्य न कदाचिद्भवति । ( मनुः ८१३८० ) - 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम्' इति सामान्येन मनुस्मरणात् । तथा ( मनुः ८ ३८१ ) - 'न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि । तस्मादस्य वधं राजा मनसापि न चिन्तयेत् ॥' इति ॥ ८१ ॥
जानतः साक्ष्यानङ्गीकारे आह
यः साक्ष्यं श्रावितोऽन्येभ्यो निहुते तत्तमोवृतः । सदाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ ८२ ॥
अपिच । यस्तु साक्षित्वमङ्गीकृत्यान्यैः साक्षिभिः सह साक्ष्यं श्रावितः सन्निगदनकाले तमोवृतो रागाद्याक्रान्तचित्तस्तत्साक्ष्यमन्येभ्यः साक्षिभ्यो निहुते नाहमत्र साक्षी भवामीति स विवादपराजये यो दण्डस्तं दण्डमष्टगुणं दाप्यः । ब्राह्मणं पुनरष्टगुणद्रव्यदण्डदानासमर्थ विवासयेत् । विवासनं च नग्नीकरणगृहभङ्गदेशनिर्वासनलक्षणं विषयानुसारेण दृष्टव्यम् । इतरेषां त्वष्टगुणद्रव्येदण्डदानासंभवे स्वजात्युचितकर्मकरण निगडबन्धनकारागृहप्रवेशादि द्रष्टव्यम् । एतच्च पूर्वश्लोकेऽप्यनुसर्तव्यम् । यदा सर्वे साक्ष्यं निहुवते तदा सर्वे समानदोषाः । यदा तु साक्ष्यमुक्त्वा पुनरन्यथा वदन्ति तदानुबन्धाद्यपेक्षया दण्ड्याः । यथाह कात्यायनः – 'उक्त्वान्यथा बुवाणाश्च दण्ड्याः स्युर्वाक्छलान्विताः' १ दण्डासंभवे ख. २ अनुबन्धो दोषोत्पादः.
For Private And Personal Use Only