________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साक्षिप्रकरणम् ५]
मिताक्षरासहिता।
१६७
नानेन सान्त्वयन । देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान् । उदङ्मुखान्प्रा. अखावा पूर्वाह्ने वै शुचिः शुचीन् ॥ आहृय साक्षिणः पृच्छेनियम्य शपथै - शम् । समस्तान्विदिताचारान्विज्ञातार्थान्पृथक्पृथक् ॥' इति । तथा ब्राह्मणादिषु श्रावणे मनुना नियमो दर्शितः (८1११३)-'सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैवैश्यं शूद्रं सर्वैस्तु पातकैः ॥' इति । ब्राह्मणमन्यथा ब्रुवतः सत्यं ते नश्यतीति शापयेत् । क्षत्रियं वाहनायुधानि तव विफलानीति । गोबीजकाञ्चनादीनि तव विफलानि भविष्यन्तीति वैश्यम् । शूद्रमन्यथा ब्रुवतस्तव सर्वाणि पातकानि भविष्यन्तीति शापयेत् । अत्र चापवादस्तेनैव दर्शितः (१०२)-'गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान्वाधूषिकांश्चैव विप्रान्शूद्रवदाचरेत् ॥' इति । विप्रग्रहणं क्षत्रियवैश्ययोरुपलक्षणार्थम् । कुशीलवा गायकाः । प्रतिवादिना साक्षिदूषणे दत्ते प्रत्यक्षयोग्यदूषणेषु बाल्यादिषु तथैव निर्णयः । अयोग्येषु तु तद्वचनाल्लोकतश्च निर्णयो न साक्ष्यन्तरेणेति नानवस्था । यदि साक्षिदोषमुद्भाव्य साधयितुं न शक्नोति प्रतिवादी तदासौ सारानुसारेण दण्ड्यः । अथ साधयति तदा न साक्षिणः । यथाह'असाधैयन्दमं दाप्यो दूषणं साक्षिणां स्फुटम् । भाविते साक्षिणो वाः साक्षिधर्मनिराकृताः ॥' इति । उद्दिष्टेषु च सर्वेषु साक्षिषु दुष्टेष्वर्थी यदा क्रियान्तरनिरपेक्षस्तदा पराजितो भवति । –'जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा । यदि वादी निराकाङ्क्षः साक्षिसत्ये व्यवस्थितः ॥' इति स्मरणात् । साकाङ्क्षश्चेस्क्रियान्तरमवलम्बेतेत्यभिप्रायः ॥ कथं श्रावयेदित्यत आह
ये पातककृतां लोका महापातकिनां तथा ॥ ७३ ॥ अग्निदानां च ये लोका ये च स्त्रीवालघातिनाम् । स तान्सर्वानवामोति यः साक्ष्यमनृतं वदेत् ॥ ७४ ॥ सुकृतं यत्त्वया किंचिजन्मान्तरशतैः कृतम् ।
तत्सर्व तस्य जानीहि यं पराजयसे षा ॥ ७५ ॥ पातकोपपातकमहापातककारिणामग्निदानां स्त्रीबालधातिनां च ये लोकास्तान्सर्वानसावामोति यः साक्ष्यमनृतं वदति । तथा जन्मान्तरशतैर्यत्सुकृतं कृतं तत्सर्वं तस्य भवति यस्तेऽनृतवदनेन पराजितो भवतीति श्रावयेदिति संबन्धः । एतच्च शूद्रविषयं द्रष्टव्यम्- 'शूद्रं सर्वैस्तु पातकैः' इति शूद्धे सर्वपा. तकश्रावणस्य विहितत्वात् । गोरक्षकादिद्विजातिविषयं च । 'गोरक्षकान्वाणिजकान्'इत्युक्तत्वात् । अन्यस्यानेकजन्मार्जितसुकृतसंक्रमणस्य महापातकादिफलप्राप्तेश्चानृतवचनमात्रेणानुपपत्तेः साक्षिसंत्रासार्थमिदमुच्यते । यथाह नारदः
१ जुवन्तं घ. २ दोषानुसारेण ख. ३ असाधयन् अभावयन्. ४ वृथा ख. ५ यस्तेऽनृतवचनेन ग. यस्तेनोऽनृतवदनेन घ. ६ श्रवणस्य घ. ७ विहितं च घ. ८ अन्यानेक. ख.
For Private And Personal Use Only