________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः 'पुराणैर्धर्मवचनैः सत्यमाहात्म्यकीर्तनैः । अनृतस्यापवादैश्च भृशमुत्रासयेदिमान्॥' इति ॥ ७३ ॥ ७४ ॥ ७५ ॥ ... .यदा तु श्राविताः साक्षिणः कथंचिन्न युस्तदा किं कर्तव्यमित्यत आह- अब्रुवन्हि नरः साक्ष्यमृणं सदशबन्धकम् । - राज्ञा सर्व प्रदाप्यः स्यात्षट्चत्वारिंशकेऽहनि ॥ ७६ ॥
यः साक्ष्यमङ्गीकृत्य श्रावितः सन् कथंचिन्न वदति स राज्ञा सर्व सवृद्धिकमृणं धनिने दाप्यः सदशबन्धकं दशमांशसहितम् । दशमांशश्च राज्ञो भवति ।
-'राज्ञाधमर्णिको दाप्यः साधितादशकं शतम्' इत्युक्तत्वात् । एतच्च पदचत्वारिंशकेऽहनि प्राप्ते वेदितव्यम् । ततोऽर्वाग्वदग्न दाप्यः । इदं च व्याध्याधुपल्लवरहितस्य । यथाह मनुः (८1१०७)-'त्रिपक्षादब्रुवन्साक्ष्यमृणादिषु नरोऽगदः । तहणं प्रामुयात्सर्वं दशबन्धं च सर्वशः ॥' इति । अगद इति राजदैवोपप्लवविरहोपलक्षणम् ॥ ७६ ॥ यस्तु जानन्नपि साक्ष्यमेव नाङ्गीकरोति दौरात्म्यात्तं प्रत्याह
न ददाति हि यः साक्ष्यं जाननपि नराधमः ।
स कूटसाक्षिणां पापस्तुल्यो दण्डेन चैव हि ॥ ७७॥ यः पुनर्नराधमो विप्रतिपन्नमर्थ विशेषतो जाननपि साक्ष्यं न ददाति नाङ्गीकरोति स कूटसाक्षिणां तुल्यः पापैः कृत्वा दण्डेन च । कूटसाक्षिणां च दण्डं वक्ष्यति । कूटसाक्षिणश्च दण्डयित्वा पुनर्व्यवहारः प्रवर्तनीयः । कृतोऽपि वा कौटसाक्ष्ये विदिते निवर्तनीयः । यथाह मनुः (८1११७)-'यस्मिन्यस्सिविवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्य निवर्तेत कृतं चाप्यकृतं भवेत् ॥' इति ॥ ७७ ॥ साक्षिविप्रतिपत्तौ कथं निर्णय इत्यत आह
द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ ७८॥ साक्षिणां द्वैधे विप्रतिपत्तौ बहूनां वचनं ग्राह्यम् । समेषु समसंख्येषु द्वैधे ये गुणिनस्तेषां वचनं प्रमाणम् । यदा पुनर्गुणिनां विप्रतिपत्तिस्तदा ये गुणवत्तमाः श्रुताध्ययनतदर्थानुष्ठानधनपुत्रादिगुणसंपन्नास्तेषां वचनं ग्राह्यम् । यत्र तु गुणिनः कतिपये इतरे च बहवस्तत्रापि गुणिनामेव वचनं ग्राह्यम् ।-'उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित्' इति गुणातिशयस्य मुख्यत्वात् । यत्तु भेदादसाक्षिण इत्युक्तं तत्सर्वसाम्येनागृह्यमाणविशेषविषयम् ॥ ७० ॥ साक्षिमिश्च कथमुक्ते जयः कथं वा पराजय इत्यत आह
यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । १ भृशं संत्रासयेत् ग. २ कृतेऽपि कौटसाक्ष्ये घ. ३ यत्र गुणिनः घ.
For Private And Personal Use Only