________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः पतिताप्तार्थसंबन्धिसहायरिपुतस्कराः ।
साहसी दृष्टदोषश्च निधूताद्यास्त्वसाक्षिणः ॥ ७१ ॥ स्त्री प्रसिद्धा । बालोऽप्राप्तव्यवहारः । वृद्धोऽशीतिकावरः । वृद्धग्रहणं वचननिषिद्धानामन्येषामपि श्रोत्रियादीनामुपलक्षणार्थम् । कितवोऽक्षदेवी । मत्तः पानादिना । उन्मत्तो ग्रेहाविष्टः । अभिशस्तोऽभियुक्तो ब्रह्महत्यादिना। रङ्गावतारी चारणः । पाखण्डिनो निर्ग्रन्थप्रभृतयः । कूटकृत्कपटलेख्यादिकारी । विकलेन्द्रियः श्रोत्रादिरहितः । पतितो ब्रह्महादिः । आप्तः सुहृत् । अर्थसंबन्धी विप्रतिपद्यमानार्थसंबन्धी । सहाय एककार्यः । रिपुः शत्रुः । तस्करः स्तेनः । साहसी बैलावष्टम्भकारी । दृष्टदोषो दृष्टविरुद्धवचनः । निर्धूतो बन्धुभिस्त्यक्तः । आद्यशब्दादन्येषामपि स्मृत्यन्तरोक्तानां दोषादसाक्षिणां भेदादसाक्षिणां स्वयमुक्तेम॒तान्तरस्य च ग्रहणम् । एते स्त्रीवालादयः साक्षिणो न भवन्ति ॥ ७० ॥ ७ ॥ ज्यवराः साक्षिणो ज्ञेया इत्यस्यापवादमाह
उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित । ज्ञानपूर्वकनित्यनैमित्तिककर्मानुष्ठायी धर्मवित् स एकोऽप्युभयानुमतश्चेत्साक्षी भवति । अपिशब्दबलावावपि । यद्यपि 'श्रौतस्मार्तक्रियापराः' इति ध्यवराणामपि धर्मवित्त्वं समानं तथापि तेषामुभयानुमत्यभावेऽपि साक्षित्वं भवति । एकस्य द्वयोर्वोभयानुमत्यैव साक्षित्वं भवतीत्यर्थवत् व्यवरग्रहणम् ॥ 'तपस्विनो दानशीला' इत्यस्यापवादमाह
सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ॥७२॥ संग्रहणादीनि वक्ष्यमाणलक्षणानि तेषु सर्वे वचननिषिद्धास्तपःप्रभृतिगुणरहिताश्च साक्षिणो भवन्ति । दोषादसाक्षिणो भेदादसाक्षिणः स्वयमुक्तिश्चात्रापि साक्षिणो भवन्ति सत्याभावादिति हेतोरत्रापि विद्यमानत्वात् । -'मनुष्यमारणं चौर्य परदाराभिमर्शनम् । पारुष्यमुभयं चेति साहसं स्याच्चतुर्विधम् ॥' इति वचनाद्यद्यपि स्त्रीसंग्रहणचौर्यपारुष्याणां साहसत्वं तथापि तेषां स्वबलावष्टम्भेन जनसमक्षं क्रियमाणानां साहसत्वम् । रहसि क्रियमाणानां तु संग्रहणादिशब्दवाच्यत्वमिति तेषां साहसात्पृथगुपादानम् ॥ ७२ ॥ साक्षिश्रावणमाह
साक्षिणः श्रावयेद्वादिप्रतिवादिसमीपगान् । अर्थिप्रत्यर्थिसंनिधौ साक्षिणः समवेतान्-'नासमवेताः पृष्टाः प्रबू युः' इति गौतमवचनात् । वक्ष्यमाणं श्रावयेत् । तत्रापि कात्यायनेन विशेषो दर्शितः -'सभान्तः साक्षिणः सर्वानार्थप्रत्यर्थिसंनिधौ। प्राडिवाको नियुञ्जीत विधि
१ भूताविष्टः. ग. २ स्वबला ख. ३ दृष्टवितथवचनः. ख. ४ अपिशब्दावावपि ग. घ. ५ त्यर्थं च त्र्यवर ग. ६ सत्यवादित्वहेतोःख. ७ पृथगपृष्टाः ग.
For Private And Personal Use Only