________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५
साक्षिप्रकरणम् ५] मिताक्षरासहिता। तस्तु यथाकामं भवन्तीत्यर्थः । जातिमनतिक्रम्य यथाजाति । जातयो मूर्धावसिक्ताद्याः अनुलोमजाः प्रतिलोमजाश्च । तत्र मूर्धावसिक्तानां मूर्धावसिक्ताः साक्षिणो भवन्ति । एवमम्बष्ठादिष्वपि द्रष्टव्यम् । वर्णमनतिक्रम्य यथावर्णम् । वर्णा ब्राह्मणादयः। तत्र ब्राह्मणानां ब्राह्मणा एवोक्तलक्षणा उक्तसंख्याकाः साक्षिणो भवन्ति । एवं क्षत्रियादिष्वपि द्रष्टव्यम् । तथा स्त्रीणां साक्ष्यं स्त्रिय एवं कुर्युः। यथाह मनुः (८।६८)-'स्त्रीणां साक्ष्यं स्त्रियः कुर्युः' इति । सजातिसवर्णासंभवे सर्वे मूर्धावसिक्कादयो ब्राह्मणादयश्च सर्वेषु मूर्धावसिक्तादिषु ब्राह्मणादिषु च यथासंभवं साक्षिणो भवन्ति । उक्तलक्षणानां साक्षिणामसंभवे प्रतिषेधरहितानामन्येषामपि साक्षित्वप्रतिपादनार्थमसाक्षिणो वक्तव्याः । ते च पञ्चविधा नारदेन दर्शिता:--'असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः । वचनाद्दोषतो भेदात्स्वयमुक्तिर्मतान्तरः॥' इति । के पुनर्वचनात् असाक्षिण इत्यत आह'श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजितादयः । असाक्षिणस्ते वचनामात्र हेतुरुदाहृतः॥' इति । तापसा वानप्रस्थाः। आदिशब्देन पित्रा विवदमानादीनां ग्रहणम् । यथाह शङ्ख:-'पित्रा विवदमानगुरुकुलवासिपरिव्राजकवानप्रेस्थनिम्रन्था असाक्षिणः' इति । दोषादसाक्षिणो दर्शिताः-स्तेनाः साहसिकाश्चण्डाः कितवा वञ्चकास्तथा । असाक्षिणस्ते दुष्टत्वात्तेषु सत्यं न विद्यते ॥' इति । चण्डाः कोपनाः । कितवा द्यूतकृतः। भेदादसाक्षिणां च स्वरूपं तेनैव दर्शितम्-'साक्षिणां लिखितानां च निर्दिष्टानां च वादिना । तेषामेकोऽन्यथावादी भेदात्सर्वे ने साक्षिणः ॥' इति । तथा स्वयमुक्तिस्वरूपं चोक्तम्-'स्वयमुक्तिरनिर्दिष्टः खयमेवैत्य यो वदेत् । सूचीत्युक्तः स शास्त्रेषु न स साक्षित्वमर्हति ॥' इति । मृतान्तरस्यापि लक्षणमुक्तम्-'योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि । क तद्वदतु साक्षित्वमित्यसाक्षी मृतान्तरः॥' इति । येनार्थिना प्रत्यर्थिना वा साक्षिणां योऽर्थः श्रावयितव्यो भवेधूयमत्रार्थ साक्षिण इति तस्मिन्नार्थनि प्रत्य. र्थिनि वा असति मृतेऽर्थे चानिवेदिते, साक्षी के कस्मिन्नर्थे कस्य वा कृते साक्ष्यं वदत्विति मृतान्तरः साक्षी न भवति । यत्र तु मुमूर्षुणा स्वस्थेन वा पित्रा पुत्रादयः श्राविता अस्मिन्नर्थेऽमी साक्षिण इति तत्र मृतान्तरोऽपि साक्षी । यथाह नारदः-'मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्राविताहते' । तथा-. 'श्रावितोऽनातुरेणापि यस्त्वर्थो धर्मसंहितः । मृतेऽपि तत्र साक्षी स्यात्षट्सु चान्वाहितादिषु ॥' इति ॥ ६८ ॥ ६९ ॥ तानेतानसाक्षिणो दर्शयति
स्त्रीवालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः।
रङ्गावतारिपाखण्डिकूटकृद्विकलेन्द्रियाः॥ ७० ॥ . १ स्वयमुक्तिम॒तान्तरम् घ. स्वयमुक्तेः ख. २ वानप्रस्था निर्ग्रन्थाश्चासा ख. निर्ग्रन्था निगडस्थाः ग. ३ वधकास्तथा ग. ४ वादिनां इति सर्वत्र पाठः. ५ सर्वे असाक्षिणः घ. ६ मुक्तिर्हि निर्दिष्टः ग.७ साक्षित्वं कस्मिन्नर्थे ख.८ साक्षात्स्यात् ख. ९ वतारपाखण्डकूट घ.
For Private And Personal Use Only