________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
अथ साक्षिप्रकरणम् ५ 'प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम्' इत्युक्तं तत्र भुक्तिनिरूपिता । सांप्रतं साक्षिस्वरूपं निरूप्यते । साक्षी च साक्षाद्दर्शनाच्छ्रवणाञ्च भवति । यथाह मनुः (७४)-'समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिख्यति' इति । स च द्विविधः कृतोऽकृतश्चेति । साक्षित्वेन निरूपितः कृतः । अनिरूपितोऽकृतः । तत्र कृतः पञ्चविधोऽकृतश्च षड्विध इत्येकादशविधः । यथाह नारदः-'एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः। कृतः पञ्चविधो ज्ञेयः षड्विधोऽकृत उच्यते ॥' इति ॥ तेषां च भेदस्तेनैव दर्शितः"लिखितः सारितश्चैव यदृच्छाभिज्ञ एव च । गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥' इति ॥ लिखितादीनां च स्वरूपं कात्यायनेनोक्तम्'अर्थिना स्वयमानीतो यो लेख्ये संनिवेश्यते । स साक्षी लिखितो नाम स्मारितः पत्रकाहते ॥' इति । स्मारितः पत्रकात इत्यस्य विवरणं तेनैव कृतम्'यस्तु कार्यप्रसिद्ध्यर्थं दृष्ट्वा कार्य पुनः पुनः । स्मार्यते ह्यार्थिना साक्षी स स्मारित इहोच्यते ॥' इति । यस्तु यदृच्छयागतः साक्षी क्रियते स यदृच्छाभिज्ञः। अनयोः पनानारूढत्वेऽपि भेदस्तेनैव दर्शितः-'प्रयोजनार्थमानीतः प्रसङ्गादागतश्च यः । द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ ॥' इति । तथा-'अ. र्थिना स्वार्थसिद्ध्यर्थ प्रत्यर्थिवचनं स्फुटम् । यः श्राव्यते स्थितो गूढो गूढसाक्षी स उच्यते ॥ इति । तथा-'साक्षिणामपि यः साक्ष्यमुपर्युपरि भाषते । श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः ॥' इति । षड्विधस्थाप्यकृतस्य भेदो नारदेन दर्शितः-'ग्रामश्च प्राड्विाकश्च राजा च व्यवहारिणाम् । कार्येष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः ॥ कुल्याः कुलविवादेषु विज्ञेयास्तेऽपि साक्षिणः ॥' इति । प्राडिवाकग्रहणं लेखकसभ्योपलक्षणार्थम् ।-लेखकः प्राडिवाकश्च संभ्याश्चैवानुपूर्वशः । नृपे पश्यति तत्कार्य साक्षिणः समुदाहृताः ॥' इति ॥ तेऽपि साक्षिणः कीदृशाः कियन्तश्च भवन्तीत्यत आह
तपखिनो दानशीलाः कुलीनाः सत्यवादिनः । धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ ६८॥ त्र्यवराः साक्षिणो ज्ञेयाः श्रौतसार्तक्रियापराः ।
यथाजाति यथावणे सर्वे सर्वेषु वा स्मृताः ॥ ६९ ॥ तपस्विनस्तपःशीलाः । दानशीला दाननिरताः। कुलीना महाकुलप्रसूताः । सत्यवादिनः सत्यवदनशीलाः । धर्मप्रधाना नार्थकामप्रधानाः । ऋजवोऽकुटिलाः। पुत्रवन्तो विद्यमानपुत्राः। धनान्विता बहसुवर्णादिधनयुक्ताः । श्रीमार्तक्रियापराः नित्यनैमित्तिकानुष्ठानरताः। एवंभूताः पुरुषास्यवराः साक्षिणो भवन्ति । त्रयः अवरा न्यूना येषां ते त्र्यवराः त्रिभ्योऽर्वाक् न भवन्ति । पर१ श्रावितः ख. २ सभ्यैश्चैव. ग. ३ सत्यवादन ख. ४ ष्ठानपराः ग.
For Private And Personal Use Only