________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३ ] मिताक्षरासहिता ।
१५५
प्रतिभुवो भावः प्रातिभाव्यं । भ्रातॄणां दम्पत्योः पितापुत्रयोश्वाविभक्ते द्रव्ये द्रव्यविभागात्प्राक्प्रातिभाव्यमृणं साक्ष्यं च न स्मृतं मन्वादिभिः । अपितु प्रतिषिद्धं, साधारणधनत्वात् । प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यव्ययावसानत्वात् , ऋणस्य चावश्यप्रतिदेयत्वात् । एतच्च परस्परानुमतिव्यतिरेकेण, परस्परानुमत्या त्वविभक्तानामपि प्रातिभाव्यादि भवत्येव । विभागादूर्व तु परस्परानुमतिव्यतिरेकेणापि भवति ॥ ननु दम्पत्योर्विभागात्प्राक्प्रातिभाव्यादिप्रतिषेधो न युज्यते । तयोविभागाभावेन विशेषणानर्थक्यात् । विभागाभावश्चापस्तम्बेन दर्शितः-'जायापत्योर्न विभागो विद्यत इति' । सत्यम् । श्रौतस्माग्निसाध्येषु कर्मसु तत्फलेषु च विभागाभावो न पुनः सर्वकर्मसु द्रव्येषु वा । तथाहि-'जायापत्योर्न निभागो विद्यते' इत्युक्त्वा किमिति न विद्यते इत्यपेक्षायां हेतुमुक्तवान्-'पाणिग्रहणाद्धि सहत्वं कर्मसु तथा पुण्यफलेषु च' इति । हि यस्मात्पाणिग्रहणादारभ्य कर्मसु सहत्वं श्रूयते-'जायापती अभिमादधीयाताम्' इति । तस्मादाधाने सहाधिकारादाधानसिद्धाग्निसाध्येषु कर्मसु सहाधिकारः । तथा 'कर्म स्मात विवाहानौ' इत्यादिस्मरणाद्विवाहसिद्धाग्निसाध्येष्वपि कर्मसु सहाधिकार एव । अतश्चोभयविधाग्निनिरपेक्षेषु कर्मसु पूर्तेषु जायापत्योः पृथगेवाधिकारः संपद्यते । तथा पुण्यानां फलेषु स्वर्गादिषु जायापत्योः सहत्वं श्रूयते-'दिविज्योतिरजरमारभेताम्' इत्यादि । येषु पुण्यकर्मसु सहा. धिकारस्तेषां फलेषु सहत्वमिति बोद्धव्यं, न पुनः पूर्तानां भत्रनुज्ञयानुष्ठि• तानां फलेष्वपि ॥ ननु द्रव्यस्वामित्वेऽपि सहत्वमुक्तम्-'द्रव्यपरिग्रहेषु च नहि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति' इति । सत्यम् । द्रव्यस्खा. मित्वं पत्या दर्शितमनेन न पुनर्विभागाभावः । यस्माइन्यपरिग्रहेषु चेत्युक्त्वा तत्र कारणमुक्तम्-'भर्तुर्विप्रवासे नैमित्तिकेऽवश्यकर्तव्ये दानेऽतिथिभोजनभिक्षाप्रदानादौ हि यस्मान्न स्तेयमुपदिशन्ति मन्वादयस्तस्माद्भार्याया अपि द्रव्य.. स्वामित्वमस्ति अन्यथा स्तेयं स्यात्' इति । तस्माद्भर्तुरिच्छया भार्याया अपि द्रव्यविभागो भवत्येव न स्वेच्छया । यथा वक्ष्यति--'यदि कुर्यात्समानंशान्पत्यः कार्याः समांशिकाः' इति ॥ ५२ ॥ अधुना प्रातिभाव्यं निरूपयितुमाह
दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥५३॥ प्रातिभाव्यं नाम विश्वासार्थ पुरुषान्तरेण सह समयः। तच्च विषयभेदात्रिधा भिद्यते । यथा-दर्शने दर्शनापेक्षायां एनं दर्शयिष्यामीति । प्रत्यये विश्वासे मत्प्रत्ययेनास्य धनं प्रयच्छ नायं स्वां वञ्चयिष्यते, यतोऽमुकस्य पुत्रोऽयं उर्वरा. प्रायभूरस्य ग्रामवैरो वास्तीति । दाने यद्ययं न ददाति तदानीमहमेव दास्या
१ भार्यायामपि ख. २ प्रकृताध्यायस्य ११५ तमे पये. ३ वरोऽस्तीति वा. घ.
For Private And Personal Use Only