________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः पुत्रपौत्रैर्ऋणं देयं निह्नवे साक्षिभावितम् ॥ ५० ॥ पिता यदि दातव्यमृणमदत्वा प्रेतो दूरदेशं गतोऽचिकित्सनीयव्याध्यायमि. भूतो वा तदा तस्कृतमुणमाख्यापनेऽवश्यं देयं पुत्रेण पौत्रेण वा पितृधनाभावेऽपि पुत्रत्वेन पौत्रत्वेन च, तत्र क्रमोऽप्ययमेव-'पित्रभावे पुत्रः पुत्राभावे पौत्र' इति पुत्रेण पौत्रेण वा निह्नवे कृते आर्थिना साक्ष्यादिभिर्भावितमृणं देयं पुत्रपौरित्यन्वयः । अत्र पितरि प्रोषित इत्येतावदुक्तम् , कालविशेषस्तु नारदेनोक्तो द्रष्टव्यः-'नाक्सिंवत्सरादिशापितरि प्रोषिते सुतः । ऋणं दद्यापितृव्ये वा ज्येष्ठे भ्रातर्यथापि वा ॥' इति । प्रेतेऽप्यप्राप्तव्यवहारकालो न दद्यात् । प्राप्तव्यवहारकालस्तु दद्यात् । सच कालस्तेनैव दर्शितः --'गर्भस्थैः सदृशो ज्ञेय आष्टमद्वित्सराच्छिशुः । बाल आषोडशाद्वर्षात्पौगण्डश्चेति सब्द्यते ॥ परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ॥' इति । यद्यपि पितृमरणादूर्ध्व बालोऽपि स्वतन्त्रो जातस्तथापि नर्णभाग्भवति । यथाह-'अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपि हि नर्णभाक् । स्वातन्यं हि स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् ॥' इति । तथा आसेधाह्वाननिषेधश्च दृश्यते-'अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती। विषमस्थाश्च नासेध्या न चैतानाह्वयेन्नृपः ॥' इति । तस्मात्- 'अतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः । ऋणात्पिता मोचनीयो यथा नो नरकं व्रजेत् ॥' इति । पुत्रेण व्यवहाराज्ञतया जातेन निष्पन्नेनेति व्याख्येयम् । श्राद्धे तु बालस्थाप्यधिकारः-'न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात्' इति गौतमस्मरणात् । पुत्रपौत्रैरिति बहुवचन निर्देशाद्वहवः पुत्रा यदि विभक्ताः स्वांशानुरूपेण ऋणं दधुः । अविभक्ताश्चेत्संभूयसमुत्थानेन गुणप्रधानभावेन वर्तमानानां प्रधानभूत एव वा दद्यादिति गम्यते । यथाह नारदः-'अत उर्व पितुः पुत्रा ऋणं दधुर्यथांशतः । अविभक्ता विभक्ता वा यस्तां चोद्वहते धुरम् ॥' इति । अत्र च यद्यपि पुत्रपौत्रैर्ऋणं देयमित्यविशेषेणोक्तं तथापि पुत्रेण यथा पिता सवृद्धिक ददाति तथैव देयम् । पौत्रेण तु समं मूलमेव दातव्यं न वृद्धिरिति विशेषोऽवगन्तव्यः । 'ऋणमात्मीयवस्पियं देयं पुत्रैर्विभावितम् । पैतामहं समं देयमदेयं तत्सुतस्य तु ॥' इति बृहस्पतिस्मरणात् । अत्र विभावितमित्यविशेषोपादानात्साक्षिविभावितमित्यत्र साक्षिग्रहणं प्रमाणोपलक्षणम् । समं यावद्गृहीतं तावदेव देयं न वृद्धिः । तत्सुतस्य प्रपौत्रस्यादेयमगृहीतधनस्य । एतच्चोत्तरश्लोके स्पष्टीक्रियते ॥ ५० ॥
ऋणापाकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः कर्तारो दर्शितास्तेषां च समवाये क्रमोऽपि दर्शितः । इदानीं कत्रन्तरसमवाये च क्रममाह
रिक्थग्राह ऋणं दाप्यो योषिद्धाहस्तथैव च ।
पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥५१॥ अन्यदीयं द्रव्यमन्यस्य क्रयादिव्यतिरेकेण यत्स्वीयं भवति तद्रिक्थम् । वि१ कृतमृणमवश्यं घ. २ अष्टमात् ख. ग. ३ व्याहरेदन्यत्र ख. ४ यस्तावद्वहते ख. ५ तथैव ऋणं ख. ग. ६ स्पष्टयिष्यते ख. ग.
For Private And Personal Use Only