________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३] मिताक्षरासहिता।
१५१ सुरापानेन यत्कृतमृणं कामकृतं स्त्रीव्यसनंनिमित्तं घूते पराजयनिमित्तं दण्ड. शुल्कयोरवशिष्टं वृथादानं धूर्तबन्दिमल्लादिभ्यो . यत्प्रतिज्ञातम्-'धूर्ते बन्दिनि मल्ले च कुवैद्ये कितवे शठे । चाटचारणचौरेषु दत्तं भवति निष्फलम् ॥' इति स्मरणात् । एतद्दणं पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो न दद्यात् । अत्र दण्डशुल्कावशिष्टकमित्यवशिष्टग्रहणात्सर्व दातव्यमिति न मन्तव्यम् । - दण्डं वा दण्डशेषं वा शुल्कं तच्छेषमेव वा । न दातव्यं तु पुत्रेण यच्च न व्यावहारिकम् ॥' इत्यौशनसस्मरणात् । गौतमेनाप्युक्तम्-'मद्यशुल्कयूतकामदण्डान्पुत्रानाध्यावहेयुः' इति । न पुत्रस्योपरि भवन्तीत्यर्थः । अनेनादेयमृणमुक्तम् ॥ ४७ ॥ 'न पतिः स्त्रीकृतं तथे'त्यस्यापवादमाह
गोपशौण्डिकशैलूपरजकव्याधयोषिताम् ।
ऋणं दद्यात्पतिस्तासां यसात्तिस्तदाश्रया ॥४८॥ गोपो गोपालः । शौण्डिकः सुराकारः । शैलूषो नटः । रजको वस्त्राणां रक्षकः । व्याधो मृगयुः । एतेषां योषिद्भिर्यदृणं कृतं तत्तत्पतिभिर्देयम् । यस्मात्तेषां वृत्तिर्जीवनं तदाश्रया योषिदधीना । यस्मादृत्तिस्तदाश्रयेति हेतुव्यपदेशादन्येऽपि ये योषिदधीनजीवनास्तेऽपि योषित्कृतमृणं दधुरिति गम्यते ॥ ४ ॥ पतिकृतं भार्या न दद्यादित्यस्यापवादमाह
प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम् ।
स्वयं कृतं वा यणं नान्यत्स्त्री दातुमर्हति ॥ ४९ ॥ मुमूर्षुणा प्रवत्स्यता वा पत्या नियुक्तया ऋणदाने यत्प्रतिपन्नं तत्पतिकृतमृणं देयम् । यच्च पत्या सह भार्यया ऋणं कृतं तदपि भर्तीभावे भार्यया अपुत्रया देयम् । यच्च स्वयं कृतं ऋणं तदपि देयम् । ननु प्रतिपन्नादि त्रयं स्त्रिया देयमिति न वक्तव्यम् , संदेहाभावात् । उच्यते-'भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥' इति वचनान्निर्धनत्वेन प्रतिपन्नादिष्वदानाशङ्कायामिदमुच्यते प्रतिपझं स्त्रिया देयमित्यादि । नचानेन वचनेन स्यादीनां निर्धनत्वमभिधीयते । पारतध्यमात्रप्रतिपादनपरत्वात् । एतच्च विभागप्रकरणे स्पष्टीकरिष्यते । नान्यस्त्री दातुमर्हतीत्येतत्तर्हि न वक्तव्यम् , विधानेनैवान्यत्र प्रतिषेधसिद्धेः । उच्यते-'प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम्' इत्येतयोरपवादार्थमुच्यते । अन्यत्सुराकामादिवचनोपात्तं प्रतिपन्नमपि पत्या सह कृतमपि न देयमिति ॥ ४९ ॥ पुनरपि यदृणं दातव्यं येन च दातव्यं यन्न च काले दातव्यं तत्रितयमाह
पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि वा। १ निर्वृत्तं ख. ग. २ पुत्रानध्यावहे युःख. ग. ३ स्तेषां घ.४ स्वयमेव ख. ५ शंकयेदमुच्यते घ.
या० १६
For Private And Personal Use Only