________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ।। ४३ ॥ ब्राह्मणादिरुत्तमों हीनजाति क्षत्रियादिजाति परिक्षीणं निर्धनमणार्थ ऋणनिवृत्यर्थ कर्म स्वकर्म स्वजात्यनुरूपं कारयेत् तत्कुटुम्बाविरोधन । ब्राह्मणस्तु पुनः परिक्षीणो निर्धनः शनैः शनैः यथोदयं यथासंभवमृणं दाप्यः । अत्र च हीनजातिग्रहणं समानजातेरप्युपलक्षणम् । अतश्च समानजातिमपि परिक्षीणं यथोचितं कर्म कारयेत् । ब्राह्मणग्रहणं च श्रेयोजातेरुपलक्षणम् । अतश्च क्षत्रियादिरपि परिक्षीणो वैश्यादेः शनैः शनैर्दाप्यो यथोदयम् । एतदेव मनुना स्पष्टीकृतम् (८१७७)--'कर्मणापि समं कुर्याद्ध निकेनाधर्णिकः । समोऽपकष्टजातिश्च दद्याच्छ्रेयांस्तु तच्छनैः ॥' इति । उत्तमर्णेन समं निवृत्तोत्तमर्णाधमर्णव्यपदेशमात्मानमधमणः कर्मणा कुर्यादित्यर्थः ॥ १३ ॥ मध्यस्थस्थापितं न वर्धते
दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् ।
मध्यस्थस्थापितं चेत्स्याद्वर्धते न ततः परम् ॥४४॥ किंच । उपचयार्थ प्रयुक्तं धनं अधमर्णेन दीयमानमुत्तमो वृद्धिलोभाद्यदि न गृह्णाति तदाधमणेन मध्यमहस्ते स्थापितं यदि स्यात्तदा ततः स्थापनादूर्व न वर्धते । अथ स्थापितमपि याच्यमानो न ददाति ततः पूर्ववद्वर्धत एव ॥४४॥ इदानी देयमृणं यदा येन च देयं तदाह
अविभक्तैः कुटुम्बार्थे यदृणं तु कृतं भवेत् ।।
दास्तद्रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥४५॥ अविभक्तबहुभिः कुटुम्बार्थमेकैकेन वा यदृणं कृतं तदृणं कुटुम्बी दद्यात् । तस्मिन्प्रेते प्रोषिते वा तद्विक्थिनः सर्वे दद्युः ॥ ४५ ॥ येन देयमित्यत्र प्रत्युदाहरणमाह
न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।
दद्याहते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ॥४६॥ पत्या कृतमृणं योषिद्भार्या नैव दद्यात् । पुत्रेण कृतं योषिन्माता न दद्यात् । तथा पुत्रेण कृतं पिता न दद्यात् । तथा भार्याकृतं पतिर्न दद्यात् । कुटुम्बार्थादृत इति सर्वशेषः । अतश्च कुटुम्बार्थ येन केनापि कृतं तत् कुटुम्बिना देयम् । तदभावे तदायहरैयमित्युक्तमेव ॥ ४६ ॥ पुत्रपौत्रैर्ऋणं देयमिति वक्ष्यति तस्य पुरस्तादपवादमाह
सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् ।
वृथादानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥४७॥ १ मृणार्थ कर्म घ. २ द्धनिकायाधमर्णिकः. ३ पितं यत्स्यात् घ. ४ पूर्व धर्धत एव ग. घ. ५ सर्वविशेषणं ख.
For Private And Personal Use Only