________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
अधुना द्रव्यविशेषे वृद्धिविशेषमाह
सन्ततिस्तु पशुस्त्रीणां पशुस्त्रीणां सन्ततिरेव वृद्धिः । पशूनां स्त्रीणां पोषणासमर्थस्य तत्पुष्टिसन्ततिकामस्य प्रयोगः संभवति । ग्रहणं च क्षीरपरिचर्यार्थिनः ॥
अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणमन्तरेणापि चिरकालावस्थितस्य कस्य द्रव्यस्य कियती परा वृद्धिरित्यपेक्षित आह
रसस्याष्टगुणा परा । वस्नधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥ ३९ ॥ रसस्य तैलघृतादेवृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य स्वकृतया वृद्ध्या वर्धमानस्याष्टगुणा वृद्धिः परा । नातः परं वर्धते । तथा वस्त्रधान्यहिरण्यानां यथासंख्यं चतुर्गुणा त्रिगुणा द्विगुणा वृद्धिः परा । वसिष्ठेन तु रसस्य त्रैगुण्यमुक्तम् 'द्विगुणं हिरण्यं त्रिगुणं धान्यं । धान्येनैव रसा व्याख्याताः पुष्पमूलफलानि च । तुलातेमष्टगुणम्' इति । मनुना तु धान्यस्य पुष्पमूलफलादीनां च पञ्चगुणत्वमुक्तम्-'धान्ये शदे लवे वाह्ये नातिकामति पञ्चताम्' इति । शदः क्षेत्रफलं पुष्पमूलफलादि। लवो मेषोर्णाचमरीकेशादिः। वाह्यो बलीवर्दतुरगादिः। धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति । तत्राधमर्णयोग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या । एतच्च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरुषान्तरसंक्रमणेन प्रयोगान्तरकरणे तस्मिन्नेव वा पुरुषे रेकसेकाभ्यां अनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वैगुण्याद्यतिक्रम्य पूर्ववद्वर्धते । सकृत्प्रयोगेऽपि प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वा वृद्ध्याहरणेऽधमर्णदेयस्य द्वैगुण्यासंभवात्पूर्वाहृतवृद्ध्या सह द्वैगुण्यमतिक्रम्य वर्धत एव । यथाह मनुः (८1१५१)-'कुसीदवृद्धिद्वैगुण्यं नात्येति सकृदाहृता।' इति । सकृदाहितेत्यपि पाठोऽस्ति । उपचयार्थ प्रयुक्त द्रव्यं कुसीदं तस्य वृद्धिः कुसीदवृद्धिः सा द्वैगुण्यं नात्येति नातिक्रॉमति । यदि सकृदाहिता सकृत्प्रयुक्ता। पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे द्वैगुण्यमत्येति । सकृदाहृतेति पाठे तु शनैः शनैः प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वाधमदाहृता द्वैगुण्यमत्येतीति व्याख्येयम् । तथा गौतमेनाप्युक्तम्-'चिरस्थाने द्वैगुण्यं प्रयोगस्य' इति । प्रयोगस्येत्येकवचननिर्देशात्प्रयोगान्तरकरणे द्वैगुण्यातिक्रमोऽभिप्रेतः । चिरस्थान इति निर्देशात् शनैः शनैर्वृद्धिग्रहणे द्वैगुण्यातिक्रमो दर्शितः ॥ ३९॥ ऋणप्रयोगधर्मा उक्ताः । सांप्रतं प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते
प्रपन्नं साधयन्नर्थ न वाच्यो नृपतेभवेत् ।
साध्यमानो नृपं गच्छेद्दण्ड्यो दाप्यश्च तद्धनम् ॥ ४०॥ १ विशेषेण ख. ग. २ तुलधृतं त्रितय ख. ग. तृतीयमष्ट घ. ३ वृक्षफलं घ. ४ गान्तरीकरणे घ. ५ किंतु मूलवृद्धिर्द्विगुणैव भवतीति कुल्लकः. ६ गच्छन् व.
For Private And Personal Use Only