________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
चौरहृतं प्रत्याह
देयं चौरहतं द्रव्यं राज्ञा जानपदाय तु ।
अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ ३६॥ चौरैर्हतं द्रव्यं चौरेभ्यो विजित्य जानपदाय स्वदेशनिवासिने यस्य तत् व्यं तस्मै राज्ञा दातव्यम् । हि यस्मात् अददत् अप्रयच्छन् यस्य तदपहृतं द्रव्यं तस्य किल्बिषमामोति । तस्य चौरस्य च । यथाह मनु:--'दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हतं धनम् । राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम् ॥' इति । यदि चौरहस्तादादाय स्वयमुपभुङ्क्ते तदा चौरस्य किल्बिषमाप्नोति । अथ चौरहृतमुपेक्षते तदा जानपदस्य किल्बिषम् । अथ चौरहृताहरणाय यतमानोपि न शक्नुयादाहर्तुं तदा तावद्धनं स्वकोशाद्दद्यात् । यथाह गौतमः-चौरहतमवजित्य यथास्थानं गमयेत्कोशाद्वा दद्यात्' इति । कृष्णद्वैपायनोऽपि-प्रत्याहर्तुं न शक्तस्तु धनं चौरैहृतं यदि । स्वकोशात्तद्धि देयं स्थादशक्तेन महीक्षिता ॥' इति ॥ ३६॥
इति असाधारणव्यवहारमातृकाप्रकरणम् ।
अथ ऋणादानप्रकरणम् ३ साधारणासाधारणरूपां व्यवहारमातृकामभिधायाधुनाष्टादशानां व्यवहारपदानामाद्यमृणादानपदं दर्शयति-'अशीतिभागो वृद्धिः स्यात्' इत्यादिना, 'मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने' इत्येवमन्तेन । तच्च ऋणादानं सप्तविधम् । ईदृशमृणं देयं, ईदृशमदेयं, अनेनाधिकारिणा देयं, अस्मिन् समये देयं, अनेन प्रकारेण देयमित्यधर्मेण पञ्चविधम् । उत्तमणे दानविधिः, आदानविधिश्चेति द्विविधमिति । एतच्च नारदेन स्पष्टीकृतम्-'ऋणं देयमदेयं च येन यत्र यया च यत् । दानग्रहणधर्माभ्यामृणादानमिति स्मृतम् ॥' इति । तत्र प्रथममुत्तमर्णस्य दानविधिमाह, तत्पूर्वकत्वादितरेषाम्
अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।
वर्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा ॥ ३७॥ मासि मासि प्रतिमासं बन्धकं विश्वासार्थं यदाधीयते आधिरिति यावत् । बन्धकेन सह वर्तत इति सबन्धकः प्रयोगस्तस्मिन्सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्य अशीतितमो भागो वृद्धिर्धा भवति । अन्यथा बन्धकरहिते प्रयोगे वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुःपञ्चकं शतं धयं भवति । ब्राह्मणेऽधमणे द्विकं शतं, क्षत्रिये त्रिक, वैश्ये चतुष्कं, शूद्रे पञ्चकं, मासिमासीत्येव द्वौ वा
१ तदुपभुजानः ग. घ. २ व्यवहाराणामाद्य घ. ३ इदं पद्यमग्रे ६४ तमं द्रष्टव्यम्. ४ धर्माश्च ऋणादान. ख. ग.
For Private And Personal Use Only