________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२ ] मिताक्षरासहिता ।
१४५
कृस्त्रमेव दद्यात् । यदा पुनः संवत्सरादृर्ध्वमागच्छति तदा षड्भागं रक्षणमूल्यं गृहीत्वा शेषं स्वामिने दद्यात् । यथाह-'आददीताथ षड्भागं प्रनष्टाधिगताअपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ।' इति । तत्र प्रथमे वर्षे कृरस्नमेव दद्यात् , द्वितीये द्वादशं भागं, तृतीये दशमं चतुर्थादिषु षष्ठं भागं गृहीत्वा शेष दद्यात् । राजभागस्य चतुर्थोऽशोऽधिगन्ने दातव्यः । स्वाम्यनागमे तु कृत्स्नस्य धनस्य चतुर्थमंशमधिगन्ने दत्त्वा शेष राजा गृह्णीयात् । तथाह गौतमः-'प्रनष्टस्वामिकमधिगम्य संवत्सरं राज्ञा रक्ष्यमूर्ध्वमधिगन्तुश्चतुर्थोंऽशो राज्ञः शेषम्' इति । अत्र संवत्सरमित्येकवचनमविवक्षितम् । 'राजा ज्यब्द निधापयेत्' इति स्मरणात्-'हरेत परतो नृपः' इत्येतदपि स्वामिन्यनागते त्र्यब्दादूर्ध्व व्ययीकरणाभ्यनुज्ञापरम् । ततः परमागते तु स्वामिनि व्ययीभूतेऽपि द्रव्ये राजा स्वांशमवतार्य तत्सम दद्यात् । एतच्च हिरण्यादिविषयम् । गवादिविषये वक्ष्यति-'पणानेकशफे दद्यात्' इत्यादिना ॥ ३३ ॥
रथ्याशुल्कशालादिनिपतितस्य सुवर्णादेर्नष्टस्याधिगमे विधिमुक्त्वा अधुना भूमौ चिरनिखातस्य सुवर्णादेनिधिशब्दवाच्यस्याधिगमे विधिमाह
राजा लब्ध्वा निधिं दद्याविजेभ्योऽध द्विजः पुनः । विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥ ३४ ॥ इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् ।
अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥ ३५ ॥ उक्तलक्षणं निधि राजा लब्ध्वा अर्धं ब्राह्मणेभ्यो दत्त्वा शेषं कोशे निवेशयेत् । ब्राह्मणस्तु विद्वान् श्रुताध्ययनसंपन्नः सदाचारो यदि निधिं लभेत तदा सर्वमेव गृह्णीयात् । यस्मादसौ सर्वस्य जगतः प्रभुः । इतरेण तु राजविद्वद्राह्मगव्यतिरिक्तेन अविद्वद्राह्मणक्षत्रियादिना निधौ लब्धे राजा षष्ठांशमधिगत्रे दत्त्वा शेष निधिं स्वयमाहरेत् । यथाह वसिष्ठः-'अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा तद्धरेत् षष्ठमंशमधिगन्ने दद्यात्' इति । गौतमोऽपि-निध्यधिगमो राजधनं भवति न ब्राह्मणस्याभिरूपस्य, अब्राह्मणो व्याख्याता षष्ठमंशं लभेतेत्येके' इति । अनिवेदित इति कर्तरि निष्ठा । अनिवेदितश्चासौ विज्ञातश्च राजेऽप्यनिवेदितविज्ञातः यः कश्चिन्निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश्च राज्ञा स सर्व निधि दाप्यो दण्डं च शत्यपेक्षया । अथ निधेरपि स्वाम्यागत्य रूपसंख्यादिभिः स्वत्वं भावयति तदा तस्मै राजा निधिं दत्त्वा षष्ठं द्वादशं वांशं स्वयमाहरेत् । यथाह मनुः (१३५)-'ममायमिति यो ब्रूयान्निधिं स. त्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वा ॥' इति । अंशविकपस्तु वर्णकालाद्यपेक्षया वेदितव्यः ॥ ३४ ॥ ३५ ॥
१ किंचिद्भागं ख. २ चतुर्थो भागः शेष राज्ञ इति घ. ३ दद्याद्विप्रेभ्योऽधं घ. ४ तद्धरेदघिगत्रे षष्ठांशं दद्यात्. ५ राजधनं न ब्राह्मणस्य ग. घ. ६ रूपकसंख्यादिभिः ख. ग.
For Private And Personal Use Only